________________
Vol. XXXIII, 2010
Prāsāda as cosmos
अग्निपुराणे ध्वजारोहणादिविधिः सर्वतत्त्वमयं ध्यात्वा शिवं च व्यापकं न्यसेत् । अनन्तकालरुद्रं च विभाव्य च पदाम्बुजे ॥१८॥ कूष्माण्डहाटकौ पीठे पातालनरकैः सह । भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतम् ॥१९॥ ब्रह्माण्डकमिदं ध्यात्वा जङ्घायां च विभावयेत् । चारितेजोऽनिलव्योमपञ्चाङ्गकसमन्वितम् ॥२०॥ सर्वावरणसंज्ञं च बुद्धियोन्यन्तकान्वितम् । योगाष्टकसमायुक्तं नासावधि गुणत्रयम् ॥२१॥ पट्टस्थं पुरुष सिंहं वामं च परिभावयेत् । मञ्जरीवेदिकायां च विद्यादिकचतुष्टयम् ॥२२॥ कण्ठे मायाङ्गवक्त्रं (च) विद्याश्चामलसारके । कलशे चेश्वरं बिन्दुं विद्येश्वरसमन्वितम् ॥२३॥ जटाजूटं च तं विद्याच्छूलं चन्द्रार्धरूपकं । शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च ॥२४॥ ध्वजे च कुण्डलिं शक्तिमिति धाम्नि विभावयेत् ।
अ.१०२ श्रीगन्नमाचार्यविरचितं मयमतशिल्पशास्त्रम् पानं (चै)वेश्वरं प्रोक्तं जगतीं विष्णुमेव च ॥३॥ कुमुदं ब्रह्मरूपं तु वेदिकां तु गणेश्वरः । शक्तीनां कण्टका हस्ताः शाकिनी डाकिनी तथा ॥४॥ पादवर्गोऽष्टपालानां प्रस्तरं चन्द्रसूर्यकम् । गलादाविन्द्रदेवं तु कण्ठादौ तु महेश्वरम् ॥५॥ उमादेवीं (च) पद्मां यां स्थूपिकाग्रे सदाशिवम् ।
References : 1 Texts such as the Visnu-samhitā—a Pāñcarātra Vaisnava work of about the 6th
century-and the Ksīrānava which is a Western Indian work of the early 15th century, liken the total form of the temple to the human body. They compare the temple's moulded members with the limbs and organs of the human body.