________________
46
M. A. Dhaky
SAMBODHI
कौर्म धरशिलायां तु खरशिलायां वाराहम् । भिट्टत्रये त्रयो देवाः पन्नगा यक्षकिन्नराः ॥२॥ जाड्यकुम्भे स्थितो नन्दी हरिश्चैव कणालिके । गजपीठे गणेशश्चाप्यश्वपीठे तथाऽश्विनौ ॥३॥ नरपीठे नरोत्तमाः खुरके वसुधा स्मृता । कुम्भकेषु तथा सृष्टिनिर्गमोद्गमसीमयोः ॥४॥ संध्यात्रयं प्रकर्तव्यं भद्रे भद्रे त्रयं विधिः । कलशे च तथा गौरी धनदोऽन्तरपत्रके ।।५।। कपोताल्यां च गन्धर्वा अन्तरपत्रे किन्नराः । मञ्चिकायां सरस्वती मेरुर्जते ससंस्थितः ॥६॥ लोकपालाश्च दिक्पालाः सुराश्चैव गणेश्वराः । इन्द्रश्चैवोद्गमे(स्थाप्यः) सावित्री भरणे स्थिता ॥७॥ विद्याधराः कपोताल्यामन्तरपत्रे सुरगणाः । खुरच्छाद्येषु पर्जन्यं मध्यगर्भे प्रतिष्ठयेत् ॥८॥ शाखयोश्चन्द्रसूर्यौ तु मातरश्चोत्तरङ्गके । उदुम्बरे स्थिता यक्षा अश्विन्यावर्धचन्द्रके ॥९॥ स्तम्भेषु पर्वता: प्रोक्ता आकाशश्च करोटके । जालके ऋषिसङ्घाश्च सुरा मध्ये च संस्थिताः ॥१०॥ ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः । उरःश्रृङ्गे तथा पञ्च भद्रे भद्रे स्वयं विधिः ॥११॥ शिखरे चेश्वरं विद्याच्छिखायां च सुराधिपम् । ग्रीवायां च ततो नन्दी चाण्डकेषु निशाकरः ॥१२॥ पद्मच्छत्रे तथा पद्मामलसारे तथामलम् । कलशे च स्थितो रुद्रो व्योमव्यापी सदाशिवः ॥१३।। सद्यो वामस्तथाघोरः पुरुषेशानको तथा । एते देवाः समाख्याताः प्रासादेषु समाश्रिताः ॥१४॥ कर्णे प्रतिरथे भद्रे रथे पञ्जरभद्रयोः । पञ्चवक्त्रे दिक्षुभद्रे अङ्गसङ्ख्या प्रशस्यते ॥१५॥