________________
ભારતી શેલત
SAMBODHI
१६. णात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञा
सम्पादनैकरसतयैवोद्वह[-*] |
खेदसुखरतिभ्यामनायासितसत्त्वसम्पत्तिः प्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठो [5*]पि परावज्ञाभि[-] मानरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृ[-*] तनिखिलभुवनामोदविमलगुणसङ्हतिप्रसभविघटितसकलकलिविलसितगतिर्नीचजनाधिरोहिभिर
शेषैर्दोपै(१)रनामृष्टा[-*] २०. त्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्र(ग्रा)हप्रकाशित
प्रवीरपुरुषः प्रथम[-*] २१. सङ्ख्याधिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुद्ध्यातस्सकलविद्याधिगम
विहितनिखिलविद्वज्जनमन[ - *] २२. परितोषातिशयसत्त्वसम्पदा त्यागौदार्येण च विगतानुसन्धाना श(स)माहितारातिपक्षमनोरथाक्ष
भङ्गस्सम्यगु[-*] २३. पलक्षितानेकशास्त्रकलालोकचरितगह्वरविभागो[s*]पि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणस्समर[-*]
પતરું રહું २४. [शतजयपताका]हरणप्रत्यलोद[ग्र] बाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुः प्रभावपरि
भूतास्त्रकौशला[-*] २५. [भिमानसकल] नृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादनुद्
ध्यातस्सच्चरि[-] २६. तातिशायितसकलपूनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानी(नि)व पुरुषकार:
परिवृद्धगु[-*] २७. णानुरागनिर्भरचितवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलाप कान्तिमानिवृति
हेतुरकलङ्क कुमुदनाथः २८. प्राज्यप्रतापस्थगितदिगन्तरालः प्रध्वन्सितध्वान्तराशिस्सततादितस्सविता प्रकृतिभ्यः परं प्रत्यय
मर्थवन्तमतिबहुतिथप्रयोजना[-*] नुबन्धमागमपरिपूर्णं विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थाने[ऽ*]नुरूपमादेशं ददद्गुण
वृद्धिविधानजनितसंस्कारस्सा[-*] ३०. धूनां राज्यशालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्र मो[5*]पि करुणमृदुहृदयः
श्रुतवानप्यगवित कान्तो[5*]पि प्रशमी स्थिर[-*]
२.x Symbol of Jihvāmuliya - read ०कलङ्कः कुमुद० ३.X Symbol of Jihvāmuliya - read गव्वितः कान्तो..