SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ चतुर्थो विमर्शः अथ एवम्भावत्वव्यावृत्त्या ध्वंसे' जन्यत्वाऽनित्यत्वयोः सम्बन्धो निवर्तमानः पक्षधर्मताबलाद् अनित्यत्वाभावमादाय सिद्ध्यति, इति' उपाधेरुत्तरपक्षे वचनप्रसङ्गात् पक्षधर्मतापि विमृश्यते । सिसाधयिषा विरहसहकृतसाधकप्रमाणाभावो यत्र सपक्षः तेन सिसाधयिषा विरहसहकृतं साधकं प्रमाणं यत्रास्ति न सपक्षः । यत्र साधकप्रमाणे सति असति वा सिसाधयिषा यत्र चोभयाभावः तत्र विशिष्टाभावात् पक्षत्वमित्यर्थः ।। अत्राऽयं विमर्शः - व्याप्तिप्रतियोगित्वं साध्यत्वं । साध्याधिकरणत्वेन इष्टत्वं पक्षत्वम् । एवञ्च सन्दिग्धसाध्यधर्मत्वं वा सिसाधयिषा विरहविशिष्टसिद्ध्यभावत्वं वा उभयमपि संगृहीतम् । न चात्र से (?सं) देहो हि विशेषणम् । तृतीयलिङ्गपरामर्शात् पूर्वं लिङ्गदर्शन व्याप्तिस्मरणादिना तन्नाशादिति वाच्यम् । सामान्यतो व्याप्तिविषयस्य नाशेपि पक्षीयत्वविशिष्टधूमविषयसंशयस्य सत्त्वात्, [पक्षे साध्यसंदेहोऽनुमानाङ्गमिति व्याप्तस्य पक्षधर्मताज्ञानादनुमित्युत्पादेन संशयनिवृत्तेरिति बाधविमर्श मणौसूत्रणाच्च] । अतएव व्याप्तिविशिष्टपक्षधर्मताज्ञानस्य अनुमितौ तत्करणव्यापाररूपत्वेनावश्यकत्वम् । तत एव सिसाधयिषित साध्यधर्माधर्मीपक्षः इति लक्षणं नोचितं, सन्दिग्धसाध्यधर्माधर्मीपक्ष इत्यत्र अव्याप्तेः केवलसिसाधयिषाया अप्रयोजकत्वात्, तां विनापि घनगजिते मेघानुमानात्, न चैवं संदेहं विनापि घनगजिते मेघानुमानमपीति वाच्यम् । प्रागेवान्तविलीनसंशयस्य संस्कारो-पनीतत्वेन तदुद्भवात् । मुमुक्षोः शब्दात् आत्मोपगमेपि मननस्य सिद्धिविशेषानुमितीच्छयाऽऽत्मानुमाने संदेहा १. ध्वंसाभावोऽनित्यः कार्यत्वात् घटवत् । २. अत्र भावत्वमुपाधिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy