SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 164 જિતેન્દ્ર બી. શાહ SAMBODHI विवक्षितं यत् किञ्चित्त्वं वा ? नाद्यः - वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्, इत्यत्र उद्भूतरूपवत्त्वस्य अनुपाधितापत्तेः । तस्य साध्यप्रसिद्ध्यवच्छेदकधर्मप्रमेयत्वाद्यवच्छिन्नप्रत्यक्षत्वाऽव्यापकत्वात् । नान्त्यः - मूलानुमानेऽपि धूमं महानसत्वाद्यवच्छेदेन प्रसिद्धवह्निव्यापकव्यञ्जनवत्त्वादेरुपाधितापत्तेरित्यादि नि:फलगौरवात् करकाः पृथिवी । कठिनसंयोगवत्वात् घटवत् इत्यादौ अनुष्णाशीतस्पर्शवत्त्वस्य उपाधेः साधनव्यापकत्वात् । देशान्तरे नराणां शाकपाकं विनापि श्यामत्वोपलब्धेश्च ! अतएव कोकिलादिसाधारणेन मित्रापुष्टत्वेन मित्रातनये श्यामत्वसाधने । मित्रातनयत्वावच्छिन्नश्यामत्वव्यापकं शाकपाकजत्वं नोपाधिः स्यात् । अस्त्यत्र आकाशं शब्दात् प्रसिद्धाश्रयवत्, इत्यत्र घटादेरुपाधित्वं [घटव्यभिचारित्वेन आकाशादिव्यभिचारित्वप्रमासम्भवात्] । यत्र यत्र आकाशं तत्र तत्र घटादिरित्याकाशसत्वव्यापकं घटादिवास्तवम् । एवं साधनं शब्दं न व्याप्नोति । शब्दे घटादि अभिलषितवस्त्वनियमात् । अत्र [वह्निधूमः व्यभिचारी, आर्टेन्धनव्यभिचारित्वात्] यद्व्यभिचारित्वेन लिङ्गेन साधनस्य साध्यव्यभिचारित्वं प्रमीयते स उपाधिरित्यर्थे घटव्यभिचारित्वे शब्दे आकाशादिव्यभिचारित्वप्रमा स्यादेव । न चात्र आकाशस्य अस्तीति वचनेन वृत्तिमत्त्वं तदेवाऽसत् इति वाच्यं समारोपेण संशयादिना तदविरोधात् । घटव्यभिचारित्वं घटात्यन्ताभावववृत्तित्वं । एवञ्च घटादावपि अलक्ष्ये उपाधिलक्षणगमनाद् अतिव्याप्तिः । एतेन यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं इति उपाधिसङ्ग्राहकसूत्रमपि निरस्तं ज्ञेयम् । यत्तु अव्यभिचारित्वं च तत्समानाधिकरणात्यन्ताभावाऽप्रतियोगित्वम् । तत्राऽपि अयं विमर्शः - . धूमसमानाधिकरणात्यन्ताभावा घटादीनां तत्प्रतियोगित्वं तेषु एव न तु वह्नौ । तथा आकाशस्यापि अत्यन्ताभावाऽप्रतियोगित्वमेव । अत एव आकाशात्यन्ताभावः केवलान्वयी अवृत्तिमतः पदार्थस्य वृत्तिमत्सु अन्योन्याभावेन अत्यन्ताभावस्यापि नियमात् । पक्षेतरे लक्षणातिव्याप्तिः न च वाच्यं, तत्र अनुकूलतर्काभावेन साध्यव्यापकत्वानिश्चयान्नोपाधित्वं इति वाच्यम् । उपाधित्वाभावेऽपि लक्षणातिव्यापकत्वेऽनन्तरायात् । भवतु वोक्तन्यायेन सकलानुमानभङ्गभयात् पक्षेतरो नोपाधिः तथापि लक्षणमतिव्यापकमेवेति पूर्वपक्षे श्रीमदुपाध्यायगङ्गगेशानां वचोऽपि व्यक्तम् । इत्यलं विस्तरेण । इति श्रीमणिपरीक्षायां तृतीयविमर्शः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy