________________
124
SAMBODHI सादाखलकं भांडुयग्रामरा- (पं.८) जमार्ग ॥ पश्चिमायां तडागवडिला । तथा श्रीअरिष्टनेमिदेववाटिका ब्रा. विठडगांगिलयोः क्षेत्रे च । उत्तर- (पं. ९) स्यां क्षेत्राणां सेरिका तथा कोचाखलकं च । कुरुलीग्रामे दलद्वयभूमेराघाटा । पूर्वतः कुटुं. गोगाउवासु- (पं.१०) देवक्षेत्रं । दक्षिणतः त्रिवहग्रामसीमा । पश्चिमतो राजमार्गः । उत्तरतो रिसियातडागिका तथा पतितकूपिका दी- (पं.११) णिपग्रामराजमार्गश्च । तथा ग्रामयोः सत्क गृहतलकयोः खलकयोश्च स्वमर्यादाप्रमाणं । एवममीभिराघाटैरु- (पं.१२) पलक्षितां भूमिमताभवगम्य तद्भूमिखेटकैर्यथादीयमानभागभोगकरहिरण्यादिसर्व सवंदाज्ञाश्रवणविधेयै (पं.१३) भूत्वाऽमुष्मै ब्राह्मणाय समुपनेतव्यं । सामान्यमेतत्पुण्यफलं मत्वाऽस्मद्वंशजैरन्यैरपि भाविभोत्कृभिरस्मत्प्रद - (पं. १४) त्त ब्रह्मदायोऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं च भगवता व्यासेन । षष्ठिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः (पं. १५) आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् । १ स्वदत्ता परदत्तां वा यो हरेत वसुंधरां स विष्टायां कृमिभूत्वा पितृ- (पं. १६) भिः सह मज्जति । २ । बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमि तस्य तस्य तदा फलं । ३ द(पं. १७) त्त्वा भूमिं भाविनः पार्थिवेंद्रान् भूयो भूयो याचते रामभद्रः सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे का- (पं. १८) ले पालनीयो भवद्भिः । लिखितमिदं शासनं मोढान्वयप्रसूतमहाक्षपटलिक ठ. श्रीकुमरसुत ठ. वो- (पं. १९) सरिणा । दूतकोऽत्र महासन्धिविग्राहिक ठ. श्री सुरइति ॥ श्री भीमदेवस्य ॥