SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ६४ श्री न्यायसिद्धान्तप्रवेशकन्थिका इदं रहस्यं परमं पवित्रं, श्रीमत्पदाब्जेन विनाऽन्यतोऽस्ति । न नाम दृष्टं किल दैशिकेन्द्र !, ततः प्रणामोऽस्तु सदा पदाब्जे ॥ १ ॥ उत्तिष्ठोत्तिष्ठ भद्रं ते, नयश्चास्तु सदा तव । संसारतारिणो तारा, विदिताऽऽराधिता त्वया ॥ २ ॥ अस्त्वेतत् । अन्यत्प्रष्टव्यं चेत् पृच्छ । पृच्छयते । नन्वेवं 'घटत्वेन घटो नास्ति' इत्युक्तौ प्रतियोगिता कुतो न घटं विहायान्यत्र गच्छति ?, अत्रापि तृतीयान्तत्वेनावच्छेदकस्य पृथगुल्लेखस्य तुल्यत्वात् । पूर्वमेवेदं परिभावितं इदमेवेदं ४४ पृच्छतीति तत्सत्यं संवृत्तं, अस्तुध्यते । 'घटत्वेन घटो नास्ति' इति न प्रामाणिकाः प्रयुञ्जन्ते । किन्तु 'घटो नास्ति' इत्येव । किं कारणम् ? | तथा प्रयुज्यमाने घटत्वस्य अवच्छेदकविधया प्रतियोगी विशेषण विधया चेति निष्फलं द्वेषा भानं स्यात् । 'नीलघटत्वेन घटो नास्ति' इत्यत्र तु प्रतियोगितावच्छेदकत्वेन विशिष्टघटत्वस्य प्रतियोगिविशेषण विधया च शुद्धघटत्वस्येति न कयोश्चि[द्] द्वेधा भानं, किन्तु सकृदेवेति न साम्यं परिशक्यम् । ननु विशिष्टघटत्वं शुद्धघटत्वं चैकमेवेति कृत्वा नीलघटत्वस्य प्रतियोगितावच्छेदकत्वेऽपि घटत्वस्य द्वेधा भानं दुष्परिहार्यम् । सत्यम् । तावताऽपि घटस्य प्रतियोगिविशेषणविघया भानं स्वरूपतोऽस्ति, अवच्छेदकविधया मानं तु स्त्रविशेषणोभूनेन नीलत्वेनेति विशेष इति न किञ्चिदनुपपन्नम् । एतेनैतावता पूर्वकालीना शङ्का गता न वा ? । श्रीमदनुग्रहेणेदानीं सर्वथा विगतसंदेहः संवृत्तोऽहम् । एवं वा । तर्हि अनुगमप्रकारेण विशेषरूपेण सामान्याऽभावं, समान्यरूपेण विशेषाऽभावं च वर्णय । Jain Education International शृणुत । 'नील घटो नास्ति' इत्यस्य नीलत्व - घटत्वोभयनिष्ट (ष्ठ) प्रतियोगिताकाsभाव इत्यर्थः । प्रतियोगितायां नीलत्व-घटत्वोभयनिष्ट (ठ) त्वं च स्वावच्छेदकता पर्याप्यनुयोगितावच्छेदकसम्बन्धेन । एवं घटत्वेन .... किं मूकीभाव इव लक्ष्यते ? | ४६ अहो ! किं वक्तव्यम् ? | श्रीमद्भिः संशयार्णवान्महता यत्नेन समुद्धृतोऽसि (पि) पुनस्तत्रैव मज्जनौ ( "नाद) व्याकुलीभूतोऽहम् । यतो यथा दुग्धान्निवारितोsपि मार्जारो दनि, तस्मान्निवारितो दुग्धे प्रवर्तते । तथाऽयं घट सामा ... ( तावन्मात्र एवं ग्रन्थोऽयमुपलभ्यते । अतः परं त्रुटितम् । ) For Personal & Private Use Only www.jainelibrary.org
SR No.520759
Book TitleSambodhi 1980 Vol 09
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy