________________
श्रीन्यायसिद्धान्तप्रवेशकन्धिका
___स्मृतं स्मृतम् । वृत्त्यनियामकसम्बन्धेन स्वामित्वादिना न प्रतियोगिमत्ताबुद्धिः कुत्रचिद् भवति येन सा स्वाऽभावबुद्धिं [प्रति] प्रतिबन्धिका स्यात्, इति वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिसा(ता)काऽभावोऽप्रामाणिक इति । .
किमरे ! यत् स्वयोच्यते 'कुत्रचिदपि वृत्त्यनियामकसम्बन्धेन प्रतियोगिमत्ताबुद्धिर्न जायते' तत्र किञ्चित् पृच्छयते ।
सानुग्रहम् । यद्येवमुच्यते तदा कथं 'गोमी'ति तद्धितः । तेनाऽधिकरणत्वस्यैव बोधनादिति ।
श्रीचरणैरयं दासः परीक्ष्यत इति मन्ये । यतोऽन्यत्र बहुधैतद्विषये सम्बन्धसामान्ये मत्वर्थीया भवन्तीति शिक्षितोऽप्यहं पृच्छयत इति । ___साधु साधु, न विस्मृतम् । अनेन हि प्रतिपादनेन 'स्वामित्वसम्बन्धेन गोस म्बन्धी' त्येव निरणायि त्वया, न तु स्वामित्वसम्बधेन गवाधिकरणमिति निश्चितं मया ।
___ नन्वेवं श्रीगुरुनाथ ! विशेषरूपेण सामान्याऽभावोपि नातिरिक्तः स्वोकर्त्तव्यः, सोऽपि विशिष्टाऽभावोऽस्तु ।
___ सत्यम् । यद्यपि नीलघटो नास्तीत्ययमभावो यत्र तत्रैव नीलत्पेन घटो नास्तीति विशेषरूपेण सामान्याभावोऽपि वर्तते । यतो नहि नीलघटवति भूत नीलत्वेन घटो नास्तीत्ययमभावः, किन्तु नीलघटशून्य एव भूतले । एवं नीलत्वेन घटो नास्तीत्ययमभावो यत्र नीलघटशून्ये प्रदेशे प्रतीयते तत्रैव नीलघटो नास्तीत्ययं विशिष्टाऽभावोऽपि प्रतीयत इति तो समनियाताविति विशिष्टाऽभाव एवं विशेषरूपेण सामान्याऽभाव इति तत्राशयः ।
तथाप्यस्ति कश्चिदनयोर्विशेषः तर्हि मय्युपदिशन्तु श्रीमन्तः ।
उपदिश्यते । शृणु । नीलघटाऽभावीया प्रतियोगिता नीलघट एव वर्तते । नीलत्वेन घटो नास्तोत्यस्याऽभावस्य तु घटसामान्ये वर्ततेऽतस्तयोर्द्वयोर्भेदः ।
किं कारणम् ।
शृणु। नोलघटाऽभावीय प्रतियोगितावच्छेदके नोलघटत्वं, तेनावच्छिन्ना प्रतियोगिता नीलघट एवास्ति ।
बुद्धं बुद्धम् । किं बुद्धम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org