________________
संपा० मुनि शीलचन्द्रविजय
६१ भों गुरो ! यदि कश्चन एवं ब्रूयात् 'सामान्यरूपेण विशेषाऽभाव एवाऽस्तु. विशिष्टाऽभावो माऽस्तु' इति, तत्र किमुत्तरितव्यम् ।
सत्यम् । अन्यत् किमपि रहस्यं न पश्यामः । परन्तु लोके विशिष्टाऽभावस्य प्रयोगबाहुल्यं दृश्यते तथा सामान्यरूपेण विशेषाऽभावस्य नेति बुद्धिबलात् कल्पित इति नानुमन्यत इति परः समाधेय इति ।
अलमलं, किमिदं न्यूनम् ।। यतः सर्वापि व्यवस्था प्रयोगबाहुल्यादेव लोके परिदृश्यते । अन्यथा वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावोऽप्यतिरिक्त: सिद्धयेत् ।
• अरे ! किमिदमुच्यते वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावोऽप्यरितिक्तः सिद्धयेदिति ! । किमय कुत्रचिदन्तर्भूतः ये नेत्थं ब्रवीषि ! ।
व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावे सोऽन्तर्भूत इति भाति । कथम् ।
उच्यते । संयोगेन रूपाऽभावीयप्रतियोगिनो रूपस्य संयोगसम्बन्धो नहि वृत्तिनियामकः। संयोगेन रूपस्य कुत्राप्यवृत्तित्वादिति । .
नहि नह्येतत् । यतः संयोगा रूपस्यैकस्य वृत्त्यनियामक इति न सर्वथा. वृत्त्यनियामकः सम्पन्नः, द्रव्यस्य वृतिनियामकत्वात् । यो हि न कस्यापि वृत्तिनियामकः स वृत्यनियामक यत्र(इत्य)भिधीयते, यथा स्वामित्वसम्बन्धादि । न हि
स्वामित्वसम्बन्धेन किमपि कुत्रचिद् वर्तते । किन्तु स्वामित्वसम्बन्धेन किञ्चित् कस्यचित् सम्बन्धि भवति । पश्य, राजा हि स्वामित्वसम्बन्धेन प्रजासम्बन्धी भवति । ननु (न तु) प्रजा स्वामित्वसम्बन्धेन राजनि वर्तते । इत्थं च स्वामित्वसम्बन्धेन न किमपि कुत्रचिद् वर्तत इति स्वामित्वसम्बन्धः सर्वथा वृत्त्यनियामक इति । अयं च नाङ्गीक्रियत एवेति कस्तत्रातिरिक्तताप्रतिपादनावसर ? इति ।
सत्यं सत्यम् । न मया स्थूलबुद्धिना दृष्टम् । परं किञ्चित् प्रष्टुमिच्छामि ।
पृच्छ पृच्छ । . वृत्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावः कुतो वा नाङ्गीक्रियते ! तद्रहस्यमुपदेष्टव्यं श्रीचरणैरिति ।
साधु पृष्टम् । ममापीदं कदाचिदुपदेष्टव्यमेवासीत् । शृणु । योऽयं प्रतियोगितावच्छेदक सम्बन्धः कल्प्यते, स प्रतिबध्यप्रतिबन्धकभावानुरोधादिति पूर्वमुक्तमेवास्ति, तत् स्मर ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org