________________
श्रीन्यायसिद्धान्तप्रवेशकन्थिका
शृणु । 'प्रतियोगि'पदस्य स एवार्थो भवति । तथा हि-'प्रतियोगि'पदस्य सन्ति त्रयोऽवयवाः, 'प्रति पदं, 'योग'पदं, तद्धितप्रत्ययश्च । तत्र 'प्रति'पदस्य 'प्रतीपं स्थित्वा' इत्यर्थः । 'समीपं स्थित्वा इति फलितोऽर्थ । 'प्रथमम्' इति यावत् । तद्धितान्तस्य 'योगविशिष्टः' अर्थः । फलितार्थस्तु 'सहोच्चरितः' इति 'मिलित्वाऽभावेन प्रथमं सहोचरितः' इति । एवं चाऽस्मदुक्त एव संपन्नोऽर्थः ।
ननु 'प्रति'पदस्य नेममर्थमश्रौषम् ।।
शाखान्तराण्यवलोकय । शृणु । अस्ति तावच्छौतविद्याशास्त्रं मीमांसाऽन्तर्गतं, तस्य 'बोधायनसूत्र मिति नाम । तत्र 'प्रतिमन्त्रयते, मनुमन्त्रयते' इत्यादीनि सूत्राणि, तद्वयाख्यातृभिः 'धूर्तस्वामी'प्रभृतिभिर्महापण्डितैः, 'प्रतिमन्त्रयत' इत्यस्य 'प्रतीपं स्थित्वा मन्त्रयत' इत्येवार्थः कृत इति । किं चाऽलङ्कारशास्त्रे 'प्रतीपा'लङ्कारपदस्येदमेव प्रवृत्तिनिमित्तं यदुपमेयमुपमानं प्रतीपं स्थित्वा तिरस्करोति । यथा-"मस्या मुखेन्दुना लब्धे, नेत्रानन्दे किमिन्दुना" इति । अत्र यपि 'प्रतीप' [प]दस्याऽऽलङ्कारिकैरन्य एवार्थः कृतस्तथाप्यस्मदुक्तार्थस्तेन न हीयते । तथा हि-मुखेन्दुर्यदि प्रसिद्धेन्दु समीपस्थो न भवेच्चेत् कथं कामुको वदे दस्या मुखेन्दुना लब्धे नेत्रानन्दे :किमिन्दुनेति ! ।। तस्मात् 'प्रतियोगि'पदस्थ प्रति'शब्दस्य योऽयमर्थः प्रदर्शितः स सुवच एव ।
ननु 'प्रतियोगी'त्यस्य विरोधी'त्येवार्थः कुतो न क्रियते ? । भवति च घटः स्वाऽभावस्य विरोधी, नहि घटवति घटाऽभावोऽस्तीति ।
सत्यम् । अभावप्रतियोगित्वस्याऽभावविरोधित्वरूपस्य सुवचत्वेऽपि सम्बन्धप्रतियोगित्वं न तथा । पश्य, भूतके संयोगेन घटो वर्तते, तस्य संयोगस्य प्रतियोगी घटः, स न संयोगस्य विरोधीसि विरोधित्वरूपं प्रतियोगित्वं सर्वत्र दुर्लमित्यस्माभिन तथोक्तम् ।।
___ एवं च 'घटाऽभाव' इत्युक्त घटनिष्ट(ष्ठ)प्रतियोगिताकाऽभावो बोध्यः, अभावीयप्रतियोगितायाः षटनिष्ट(ठ)त्वात् । सा च प्रतियोगिता अभावाऽधिकरणे स्वातियोगिनो येन सम्बन्धेनाऽसत्वं तत्सम्बन्धावच्छिन्ना भवति । यथा-घटाऽभाववति भूतले घटाऽभावप्रतियोगिनो घटस्य येन सम्बन्धेनाऽसत्त्वं-संयोगसम्बन्धेऽनासत्त्वमतः तत्सम्बन्धावच्छिन्ना जातेति । अथवा-अभावाऽधिकरणे अभाव. प्रहात् पूर्व येन सम्बन्धेन प्रतियोगिनो निर्णयो लोके भवति तत्सम्बन्धावछिन्ना भवति । पश्य, घटाऽभावाधिकरणे भूतले घटाऽभाववद्भुतल'मितिनिर्णयात् पूर्व प्रतियोगिनो घटस्य येन सम्बन्धेन" निर्णयो भवति 'धटषद्भूतल मिति संयोगेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org