SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Jain Education International -३६ श्रीमत्सूराचार्यविरचितम् गेहे समागते साधावौषधादिसमीहया । अवज्ञा क्रियते यत्तु पातकं किमतः परम् ॥ ५२ ॥ अन्यत्रापि सधर्मचारिणि जने मान्ये विशेषान्मुनौ दृष्टे साधुनिधाविवापनिधने बन्धाविवातिप्रिये । यस्योल्लासिविकासहाससुभगे स्यातां न नेत्राऽऽनने दूरे तस्य जिनो वचोऽपि हृदये जैनं न सन्तिष्ठते ॥ ५३ ॥ विलोक्य साधुलोकं यो विकासित विलोकन: । [४८-२] अमन्दानन्दसन्दोहः स्यात् स देही सुदर्शनः ॥५४॥ इदं दर्शन सर्वस्वमिदं दर्शनजीवितम् । प्रधानं दर्शनस्येदं वात्सल्यं यत् सधार्मिके || ५५ ।। येषां तीर्थकरेषु भक्तिरतुला पापे जुगुप्सा परा दाक्षिण्यं समुदारता शममतिः सत्योपकारे रतिः । ते सद्धर्ममहाभरैकधवलाः पोता भवाम्भोनिधौ भव्यानां पततां पवित्रितधराः पात्रं परं सदृशः ॥ ५६ ॥ चारित्रिणस्तृणमणी गणयन्ति तुल्यं पश्यन्ति मित्रमिव शत्रुमरागरोषाः । किं भूयसा निजवपु[ ४९ - १] यपि निर्ममत्वा ये ते पर त्रिभुवनार्चितमत्र पात्रम् ||५७ || ये नित्यं प्राणिरक्षा प्रणिहितमतयोऽसत्यसन्ध्यागयुक्ता त्यक्तस्तेया मृगाक्षीमुखसुखविमुखा मुक्तमुक्तादिमूर्च्छाः । मूर्ता धर्मा इवैते जितमदमदना मन्दिरं मन्दरागाः । पादीयै पशुपातैरिह यतिपतयः पुण्यभाजां पुनन्ति ॥ ५८ ॥ त्रिभुवनमिदं व्याप्तं चित्रैश्वराचरजन्तुभिः स्वभरणपरैः पीडां कर्तुं परस्य सदोद्यतैः । तदपि [ ४९ - २ ] न तनुत्यागेऽप्यन्यं हिनस्ति कदाऽपि यः कथमिव मुनिर्मान्यो न स्यात् स देव इवापरः ॥ ५९ ॥ लोभक्रोधाद्यैः प्राणनाशेऽप्यसत्यं ये नो भाषन्तेऽशेषभाषाविधिज्ञाः । लोकातिक्रान्तैकान्तकान्तोरुसत्त्वाः सत्त्वांस्ते वाचाऽप्येनसो वञ्चयन्ति ॥ ६०॥ १ पादानामिमे पादीयाः तैः चरणसत्कैरित्यर्थः । For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy