SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽवसरः सङ्घोऽनघः स्फुरदनर्घगुणौ[प]रत्न रत्नाकरो हितकरश्च शरीरभाजाम् । निःशेषतीर्थकर मुख्यमुनीन्द्रमान्यः पूज्यो गुरुस्त्रिभुवनेऽपि[४१-२] समोऽस्य नान्यः ॥१॥ श्रीसङ्घतः स भवतीति कृतज्ञभावात् पूज्यं ममापरजनाः परिपूजयन्तु । कार्य विनाऽपि विनयो गुरुणाऽपि कार्यः प्रख्यापयन्निति जिनोऽपि नमस्यतीमम् ॥२॥ क्लेशापहं सपदि सुन्दरनामधेयं । स्मृत्याऽप्यमुष्य परिपुष्यति भागधेयम् । आलापमात्रमपि लुम्पति पातकानि कां योग्यतां तनुमतां तनुते न योगः ॥३॥ श्रीसद्धे परिपूजिते किमु न यत् सम्पूजितं पूजकै रेतस्मिन् गृहमागते किमु न यत् कल्याणमभ्यागतम् । एतत्पादसरोजरा[४२-१]जिरजसा पुंसां समारोहता मूर्धान प्रविधीयते यदधिको शुद्धिस्तदत्राद्भुतम् ॥४॥ यत् किश्चनापि सङ्के नियोजितं वितनुते विशिष्टफल[म्] । तोयमिव शुक्तिसम्पुटपतितं मुक्ताफलं विमलम् ॥५॥ अनघे सङ्के क्षेत्रे श्रद्धाजलसिक्तमुप्तमल्पमपि । जनयति फलं विशालं विटपिनमिव वटतरोबीजम् ॥६॥ वित्तं वितीर्ण विस्तीर्णे पवित्रे पात्रसत्तमे । सङ्घ सजायतेऽनन्तं न्यस्तमर्ण इवार्णवे ॥७॥ समस्तः पूजितः सङ्घः एकदेशेऽपि पूजिते । विन्यस्तमस्तके[४२-२] पुष्पे पूज्यो जायेत पूजितः ॥८॥ गजवजस्येव दिशागजेन्द्राः सङ्घस्य मुख्यास्तु मता मुनीन्द्राः । तेभ्यः प्रदानं विधिना निदान निर्वाणपर्यन्तसुखावलीनाम् ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy