SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् शास्त्रनेत्रविहीनो हि वाहरोहादिवर्जितः । पशोरपि नरः पापः कथं जीवन् न लज्जितः ! ॥२७॥ नरेण शास्त्रशून्येन किं शोच्येन विपश्चिताम् । तिरश्चोऽपि जघन्येन लब्धनाशितजन्मना ॥२८॥ लाध्याः सुलब्धजन्मानः स्पृहणीया विवेकिनाम् । पूजनीया जनस्यान्ये धन्याः शास्त्रविशारदाः ॥२९॥ श्रयन्ते श्रुतिनोऽश्रान्तं श्रेणिभिः श्रीमतां श्रिताः । विश्राणयन्तः श्रेयांसि श्रुतीनां विश्रुताः श्रुताः ॥३०॥ पूज्यन्ते श्रुतशालिनो [१२-१] नृपशतैराज्ञाविधेयैर्जनै-- रन्यैरप्यनुवासरं सविनयैर्भक्त्या विनेयैरिव । सेव्यन्ते च शुभोपदेशकुशला धर्मार्थकामार्थिनां साथैः स्वार्थपरार्थतत्परधियो देवा इवाराधकैः ॥३१॥ कुर्वाणा गीर्वाणा निर्वाणार्थ श्रुतस्य बहुमानम् । श्रृंयन्ते श्रुतभाजां महामुनोनां च बहुमानम् ॥३२॥ जायन्ते च यतीनां श्रुतानुभावेन लब्धयो विविधाः । फलमैहिकमामुष्मिकममलामरनरशिवसुखानि ॥३३॥ धर्मार्थकाममोक्षाणां कीर्तेश्चकं [१२ २] प्रकोर्तितम् । ज्ञानं जलमिवावन्ध्य धान्यानां सन्निबन्धनम् ॥३४॥ . इदं विदित्वा श्रुतसङ्ग्रहे गुरु गुरुक्रमाम्भोजरतैरनारतम् । समीहमानैरसमां समुन्नति ___ समुधमः सद्विधिना विधीयताम् ॥३५॥ गुरुजनमुखे भक्त्या न्यस्यन् मुहुर्मुहुरीक्षणे क्षणमपि कथां कुर्वन्नान्यां न चापरचिन्तनम् । उपचितरुचिः सूत्रस्यार्थे शिरोरचिताञ्जलिः पुलकितवपुः पृष्ठे जल्पंस्तथेति समाहितः ॥३६॥ उदानन्दाश्रि(क्षिणी बिभ्रन् नेत्रपात्रे पवित्रितम् । स्वं कृतार्थ [१३-१] च मन्वानः पिबेत्तद्वचनामृतम् ॥३७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy