SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ALL दानादिप्रकरणम् भोग्या योग्या साधुबन्धूपयोग्या लोके श्लाघ्या श्लोकधर्मकहेतुः जाये - - जायते पुण्यभाजां श्रीः कुर्वाणा निर्वृतिं निर्विवादा ॥३४॥ स्वपरोपकारनिपुणाः पुरुषार्थपरायणाश्चिरं सुखिनः । जीवन्ति स्पृहणीयं धर्मेण नराः सुधर्माणः ॥३५॥ सत्तारुण्यं तारलावण्यपुण्यं पीयूषं वा नेत्रपात्रप्रपेयं । स्त्रीपुंसानां कामदेवैकधाम - प्राज्ञाः प्राहुर्धर्मबीजप्ररोहं ॥३६॥ - - - - -- - -- [६-२] रिपुबलमखिलं खेलया खण्डयन्ति प्रोदण्डैर्मुण्डखण्डैरिह रणधरणीमण्डलं मण्डयन्ति । पादाङ्गष्ठस्य कोट्या यदतुलमचलं लीलया चालयन्ति धर्मस्या[चिन्त्यशक्तेस्तदपि विलसितं साधवः साधयन्ते ॥३७॥ कैलासः किल रावणेन तुलितो बाहुद्वयेनाचलः श्रीगोवर्धनभूधरो मुरजिता तूर्ण च तीर्णोऽर्णवः । चक्री बाहुबलेन बाहुबलिना भग्नो विलग्ने रणे किं नो निर्मलधर्मनिर्मितिरियं निर्मापयत्यद्भुतम् ।।३८॥ . द्वात्रिंशत्सत्सहस्रः सविनयविनतैः सेवितो भूपतीनां द्विस्तावद्भिः सुरस्त्रीविसरविजयिनां कान्तकान्ताजनानाम् । रत्नःिसप्तसङ्खयैरनिधनसुधनैः सान्निधानैर्निधान मानां मूर्धवर्ती मणिरिव सुकृती वर्तते [७-१] चक्रवर्ती ॥३९॥ पूर्वार्जितोर्जितशुभेन भवन्ति भूपाः श्वेतातपत्र चमरादिविचित्रचिह्नाः । सामन्तसन्ततिसमानतपादपमा देवा इवातिरुचिरा स्फुरितोरुपमाः ॥१०॥ . १. कृष्णेन ॥ १. चतुःषष्टिसहस्ररित्यर्थः ॥ २. चतुर्दशभिः ॥ ३. स्फुरितप्रौढलक्ष्म्यः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy