SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः [अन्धकार-प्रशस्तिः ] 652 विप्रः श्रीसर्वदेवाह उदोच्यानां कुलेऽतुले । कलाकलापवान् जज्ञे द्विजराज इवार्णवे ॥ १ 653 शुद्धपक्षद्वयस्तस्य सुतो हंसाभिधोऽभवत् ।। तत्पुत्रोऽत्युत्तमाह्वानः प्रधानः पुण्यकारिणाम् ॥ २ 654 समजायत तज्जाया न्यायिनी न्यायशालिनी । श्रद्धाधीयत(?)सीताऽपि सा यस्याः शीललीलया ॥ ३ 635 तयोः सूनुरयं दक्षी लक्ष्मणाख्योऽस्ति दोक्षितः । न क्वचित् क्रूरया दृष्टया क्रोधयोधेन वीक्षितः ॥ . 656 साभिप्रायस्त(यत)या यस्मिन् सर्वाः सूक्तीवितन्वति । सकृत् विस्मितचित्तः सन् हसत्येव मृतोऽपि हि ॥ ५ . 657 अथ चेत् चेतनावानप्येताभिर्न हसेत् स्वतः । ततः स तत्वतः सत्यं मृत एव श्वसन्नपि ॥ ६ . 658 कण्ठशोषकरैः किं वाऽपरैः प्रलपितैरपि । मूर्तिमानिव यो हास्यरसो धात्रा विनिर्मितः ॥७ 659 तेनायं सूक्तिरत्नानां साकोशः समसूत्र्यत । . पठ्यतां कृतिभिस्तावद्यावदिन्दुदिवाकरौ ।। ८ * * ख प्रतिरत्र समाप्ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy