SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः अथ कर्म । 641 कर्म प्रधानतामेति न शुभग्रहवीक्षणम् । वसिष्ठदत्तलग्नोऽपि रामः प्रवजितो वने ॥ १ 642 कर्मणामतिवैचित्र्यात्कालस्यानन्तसंततेः । इन्द्रत्वं वा कृमित्वं वा कैर्नाभ्यस्तं गतागतैः ॥ २ 643 यदिह क्रियते कर्म तत्परत्रोपतिष्ठते । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते ॥ ३ . 644 रत्नाकरः समुद्रोऽभूत् कामहा परमेश्वरः । नरवाहनस्तु धनदो तत्कर्मै कविषाकतः ॥ ४ 645 मन्यामहे महच्चिद्रं कर्मणः प्राक्तनस्य तत् । यदपथ्यभुजामायुस्तथाऽनीतिमतां श्रियः ॥ ५ 646 मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि । तत्रैकः शुक्लता प्राप यशः पुण्यैरवाप्यते ॥ ६ 647 पञ्चभिः कामिता कुन्ती वधूस्तत्त्यास्तु तादृशी । तथाऽपि कथ्यते साध्वी यशः पुण्यैरवाप्यते ॥ ७ अथ सुरतम् । 648 आस्तां दूरेण विश्लेषः प्रियमालिङ्गतोऽपि मे । स्वेदः किं नु सरिन्नाथो रोमाञ्चः किं नु पर्वतः॥ १ 649 किं वा लोना विलीना वा प्रसुप्ता वा मृताऽथवा । परिष्वक्ताऽपि कुरुते मम शङ्काशतं प्रिया ॥ २ अथ दयितस्यागमनम् । 650 न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम् ॥१ 651 वल्छभागमनानन्दनिर्भरे हृदये सति । वद कुत्रावकाशोऽस्ति मानस्य मम साम्प्रतम् ॥२ 641. प. न शुभग्रहवोक्षितुम् ॥ 642 प० केनाभ्यस्तं गतोगतैः ॥ 647 ख प्रतौ न विद्यते । 648 ख० किन्नः । प० प्रतिरत्रसमाप्ताः। प० प्रतो पुष्पिका भद्रम् ॥ठ। ग्रन्थानं ६८०॥ शुभं भवतु सर्वदैव साधुलोकस्य ।। . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy