SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Jain Education International लक्ष्मणकृतः अथ कोकिलः । 596 काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । खलङ्गेऽपि नैष्ठुर्य कल्याणप्रकृतेः कुतः ॥ १ 597 कोकिल चूतशिखरे मञ्जरीरेणुपिञ्जरः । गदितैर्व्यक्तिमायाति कुलीन चेष्टितैरिव ॥ २ अथ अगस्तिः । 598 अगस्तिचुलुके क्लृप्तसप्तवारिधिवारिणि । मुहूर्त केशवेनापि तरता पूतरायितम् || १ ( ? ) 599 अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः । हा स एव मुनेः पाणिरधस्तात् विन्ध्यभूभृतः ॥ २ 600 बरं मौरजिकस्यापि करद्वयमधोमुखम् । वेदाभ्यासोsपि धिक्कष्टमुत्तानकर कारकः ॥ ३ अथ कमलम् । 601 . वरमश्रीकता लोके नासमानसमानता । इति गर्दभकोद्दे कमलैर्मुकुलायितम् ॥१ 602 मद्गुणान्वीक्ष्य मा यासोल्लक्ष्मी गुणविरोधिनी । इतीव कमलं नाले गोपायति निजान् गुणान् ॥२ 603 अन्तच्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भुवन्भगुग गुणाः ॥३ 604 लक्ष्मीसंपर्कतः सोऽयं दोषः पद्मस्य न स्वतः । यदेव गुणसंदोहधाम्नि चन्द्रे पराङ्मुखः ||४ अथ भृङ्गः । 605 केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषः करोति किं नाम गुणापहृतचेतसः ॥ अथ समुद्रः । 606 यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । तथाऽपि नानुदध्नोऽयमिति चेतसि मा कृथाः ||१ 596. ख० प्रवृद्धस्य । ख० कलगिरः ॥ 605. भृङ्गपद्धतिः ख प्रतौ नास्ति || 606 ख प्रत्तो न विद्यते ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy