SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 264 विहाये(रो) मृगशावाक्ष्याः सुगताधिष्ठितो यदि । कथं वसति तत्रैव स्मरो विगतकार्मुकः ॥३४ 265 सखे समं प्रयातेषु समस्तेष्विन्द्रियेषु मे । ___मनो गृहीतं तन्वङ्गया कस्यचित्किञ्चिदीप्सितम् ॥३५ 266 यो यः पश्यति तन्नेत्रे रुचिरे वनजायते । तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥३६ • 267 कथं मुग्धे कथं वक्र कान्तायास्ते विलोचने । कथं जनानुरागाय कथं जनविपत्तये ॥३७ 268 सा श्रुता हृदि तापाय दृष्टोन्मादाय केवलम् । स्पृहा(ष्टा!) भवति शोभा(का)य सा नाम दयिता कथम् ॥३८ 269 मां प्राप्य दैवहतक मुनेरप्यनृतं वचः। यतः प्रियावियोगस्य क्षणभङ्गो न दृश्यते ॥३९ 270 नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वनः । यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥४० भर्तृहरि, सु.सं, १२७] 271 यस्य केशेषु जीमूताः नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारः स जयेद्विरहानलम् ॥४१ 272 येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । ___कृत्स्न व्याकरणं प्रोक्तं स तन्व्याः कथयेद्गुणान् ॥४२ 273 गुरुणा स्तनभारेण सोपदिष्टा तथामुना । यथा तत्क्षणमेवास्ता(प्ता) तया नयसमा गतिः ॥१३ 274 सति प्रदीपे सत्यर्के सत्सु तारामणीन्दुषु । विना मे मृगशावाक्ष्यास्तमोभूतमिदं जगत् ॥४१ 275 मुखेन चन्द्रकान्तेन महानीलः शिरोरुहैः। हस्ताभ्यां पभरागाभ्यां रेजे रत्नमयीव सा ॥४५ [भर्तृहरि, सु..सं, १३१] 276 गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥४६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy