SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सूक्तिरलकोषः 236 दिव्यचक्षुरहं जातः सरागेणापि चेत पा । । दूरस्थो येन पश्यामि देशान्तरगतां प्रियाम् ॥६॥ 237 एकतो दिवसान्कान्ता गणयत्यन्यतो यमः । न विभः प्रथमं कस्य यास्यामो वयमन्तिकम् ॥७॥ 238 अप्रतो बाहुपाशेन केशपाशेन पृष्ठतः । पार्वतः केशपाशेन(?) सर्वतो बन्धनं हि सा ॥८॥ 239 मध्येनैकेन तन्वयाः क्षामेण क्षपिता वरम् । उन्नतं स्तनयुग्मं तु न विमः किं करिष्यति ॥९॥ . 240 मध्यदेशात्पुनः काश्चीदेशं गच्छभिराकुलैः । तन्व्या वपुषि लोकस्य लोचनैः पथिकायितम् ॥१०॥ 241 अनया जघनाभोगभरमन्थरया तया । अन्यतोऽपि व्रजन्न्या मे हृदये लिहितं पदम् । ११॥ 242 मम कामशराघातैर्वणिते हृदये स्थिता । कथं सलवणा तन्वी संतापं न करिष्यति ।१२॥ 243 लवणं क्षिप्यते यत्र तत्पात्रं क्षीयते किल । लावण्यं तव तन्वङ्गि कथं क्षीयामहे वयम् ॥१३॥ 244 सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः । तस्या लावण्यमङ्गेषु दाहोऽस्मासु विज़म्भते ॥१४॥ 245 क्षिपतोऽप्यन्यतश्चित्तं सैव सारङ्गलोचना । .. शङ्केव कृतपापस्य हृदयान्नापसर्पति ॥१५॥ 246 एकमुत्कण्ठया व्याप्तमन्ययितया हृतम् । चेतनामपरं धत्ते कियन्(न्ति) हृदयानि मे ॥१६॥ 247 हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । ___ संभावितैकदेशेन देयं यदभियुज्यते ॥१७॥ [विक्रमोर्वशीयम्, ४, १७ 248 प्रियानेत्रमुखच्छायातलावण्यशोभयोः । समानदुःखयोरैक्यं युक्तं तन्मृगचन्द्रयोः ॥१८॥ 249 वाहि वात यतः कान्तां तां स्पृष्ट्वा मामपि स्पृश । बहवेतकामयानस्य शक्यमेतेन जीवितुम् ॥१९॥ - लाप Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy