SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 224 अाश्वासयत काकोऽपि दु:खितां पथिकाङ्गनाम् । त्वं चन्द्रामृतजन्मापि दहसीति किमुच्यताम् ॥७। 225 रागान्नितान्तरक्तेन लोचनानन्दकारिणम् । . उवाह. मनसा कान्तं पाणिना मुखपङ्कनम् ॥८ 226 दीनायां दोनवदनो रुदत्यां साश्रुलोचनः । . . पुरः सखीजनस्तस्याः प्रतिबिम्बमिवावभौ ॥९ 227 दह्यमानेऽपि हृदये मृगाझ्या मन्मथाग्निना । स्नेहस्तथैव यत्तस्थौ तदाश्चर्यमिवाभवत् ॥१० 228 तस्याः स्तनान्तरे न्यस्तं चन्दनं तापशोषितम् । मनोभवाग्निदग्धस्य बभो भस्मेव चेतसः ॥११ 229 तापोपघातदक्षाणि मृणालानि नतभ्रुवः । नाभुवन् दीर्घसूत्रेभ्यः काशितं प्राप्यते कुतः ॥१२ 230 मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलोमुखम् । स्थितं पन्थानमावृत्य किंकिरातं न पश्यसि ॥१३ । अथ विरही* 231 हारो नारोपितः कण्ठे' कष्टसंश्लेषभीरुणा । ___ इदानोमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥१ 232 सा दृष्टा यैर्न वा दृष्टा मुषिताः सममेव ते । हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥२ 233 यदि स्मरामि तां तन्वी जीविताशा कुतो मम । । अथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥३ 234 प्राणानां च प्रियायाः(याश्च) मूढाः सादृश्यकारिणः । प्रिया कण्ठगता रत्यै प्राणा मरणहेतवे ॥४ 235 प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥५ 230 श्लोकोऽयं नोपलभ्यते ख प्रतौ ।। *'अथ विरही' इति पद्धतिनिर्देशो नोपलभ्यते ख प्रती । समग्रा चेयं पद्धतिः (६४ श्लोकप्रमाणा) प प्रतौ ४६३ श्लोकानन्तरं प्रकीर्ण कपद्धतेरनन्तरं उपलभ्यते । १ 'कष्ठ' इत्यन्तर्गत 'ठ' वर्णादारभ्य २७९ तम लोकचतुर्थचरणगत विषादप्यतिरिच्यते' ग्रन्थसंदर्भः नोपलब्धः प प्रतौ पत्रपञ्चक त्रुटे: (पत्र४२तः ४६).. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy