________________
साहित्य प्रतिभा
- - नकाव
सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतमा कवीनाम् ।
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्त प्रतिभाविशेषम् ॥1 - प्रतिभाप्रसादादिध महाकविपदवों लभन्ते सहृदयाः। स एव महाकविर्यस्य प्रतिभायाँ स्वत:.. स्फुर्तिर्विदयते । नवनवोन्मेषशालिनी प्रज्ञैव प्रतिभापरपर्याया। काव्यस्य कारणीभूता सा तस्य च निर्मात्री शक्तिरिति । भाकोपयोगिनोः शब्दार्थयोरन्वेषणे वयंमानवस्तूनां प्रकृत्या च कवेः प्रतिभा समुल्लसति ।
प्रति-पूर्वकस्य भा-धातोः क-प्रत्ययान्ते टापि प्रतिमेति सिधिः । प्रतिभाति इति प्रति-पूर्वकस्य भा-धातोः “आतश्चोपसर्गे” इत्यादिना अपि सिद्धिर्जायते । तेन यत्तत्त्वं वस्तु वी चि. भास्य भवति तदेव प्रतिभाविलास: चमत्कारातिशयो वा । इयमेव प्रतिभा काव्यसौन्द कर्मणि स्फुरत.। न चेयं प्रतिभा प्रत्यक्षोभूता अपि इन्द्रियार्थसन्निकर्षजन्या । अपि तु संस्कारजन्या, यी खलु बालेषु जन्मान्धेषु अपें कविषु कवित्वशक्तित्वेन स्फुरति । उक्तञ्चाचार्येण राजेशेखरण - . अप्रतिभस्य पदार्थसार्थः परोक्ष इव प्रतिभावतः पुनस्पश्यतोऽपि प्रत्यक्ष इव
यतो मेधाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते ॥' प्राक्तनजन्मनः संस्कारः एषां कवीनां कविकर्मणि विराजते इति प्राच्यसमालोचकानामभिमतम् । "कवीनां नवा दृष्टिः" इति तत्रभवत आनन्दवर्धनस्याशयः ।
गुरूपदेशादश्यतुं शास्त्र जडधियोऽप्यलम् । .
काव्यं तु जायते जातु कस्यचित् प्रतिभावतः ॥ इति तावदभिमतमाचार्यस्य भामस्य । नैसर्गिकी प्रतिभा अन्यतमं काव्यकारणमिति आचार्यो दण्डी। यदुक्तं तत्रभवता काव्यादर्श
नैसर्गिकी च प्रतिमा श्रुतञ्च बहु-निर्मलम् ।
अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः॥4 सा प्रतिभा पूर्वजन्मनः गुणैः सम्बन्धिता-"पूर्ववासनागुणानुबन्धि प्रतिभानमद्भुतम् ।" अनयोः चिरन्तनाचार्ययोरभिमतेन समधिकतया प्रभाविता आलंकारिकाः ।
आचार्यो वामनो विस्तृतरूपेण प्रतिभामालोचितवान् । कवयो विप्रकारा इत्याशयस्तस्य । अरोकिनः सतृणाभ्यवहारिणश्चेति कवयः । आद्याः विवेकित्वात् यथार्थकाव्यसृजने समर्थाः, अन्तिमास्तु तदिवपर्ययात् नेति । वामनाचार्यः काव्यालंकारसूत्रवृत्तः तृतीये अध्याये काव्याङ्गमल्लिख्य लोकविदयाप्रकीर्णभेदेन तस्य त्रिविध विभाग कृतवान् । प्रकीर्णे विभागे तत्रभवता प्रतिभा आलोचिता-"लक्ष्यज्ञत्वमभियोगो वृद्घसेवावेक्षणं प्रतिभानमवधानं च प्रकीर्णम् " अन्तिमे प्रतिभामुल्लिख्यापि काव्यस्य बीजरूपेण प्रतिभा तेनाङ्गीकृता-"कवित्वबीजं प्रतिभानम्" कवित्वस्य बीजं कवित्वबीजम् जन्मान्तरागतसंस्कारविशेषः कश्चित् । यं बीजं विना काव्यं न निष्पद्यते निष्पन्नं वावहासायतनं स्यात् । दण्डिनः पन्थानमनुसरता तेन सहजायाः प्रतिभाया एव प्राधान्यं प्रतिपादितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org