________________
मल्लिकामकरन्दनाटकम् ।
( पुनराकाशे )
पुण्य[स्य ] समिधः सत्य - दया- दान - प्रशान्तयः । अस्त्रा-नि- कण्ठपाशास्तु देहदुःखाय केवलम् ॥३॥ मकरन्दः ( सव्रीडमुपविश्य ) ततस्तत: ? ।
मागधिका - 'अहं दाणि भट्टिदारियाए एदाई वत्था - ssहरणाई समप्पिदुं किंचि कहिदु च तुहं समीवे पेसिद म्हि । ( वस्त्राणि कटकानि च समर्पयति । ) मकरन्दः - कुत एतानि प्राप्तानि प्रियया ? | मागधिका - चित्तंग देण अणुकूलितुं दिन्नाणि । मकरन्दः ( सहर्षाश्चर्यम् )
तरुणान्तरादवाप्तं समर्पयन्ती प्रसाधनं पत्युः ।
तरुणीयं दिशति मुदं मुधा सुधा सा पुरस्तस्याः ||४|| ( सप्रमोदमुत्थाय परिदधाति । पुनः सौत्सुक्यम् ) मागधिके ! कथय प्रियासन्दिष्टं वाचिकम् । अनुभवतु चिरादयं विप्रयोगानलाभितप्तो जनः प्रमोदकणिकाम् । मागधिका - 'तुमं ज्जेव मे पई । अप्पा उण तए लहुणा हविय चित्तंगदाओ रक्खिदव्वो । जदो
सो कुणइ किं पि पच्छा तणुआइ परेसु जो समत्थे । गोवत्तलहुँ अप्पं कप्पिय हरिणा हओ कंसो ॥५॥
एस भट्टिदारियाए संदेसो । अवरं च न पहवंदि सिद्धालय निवासीणं दुरदाईं । तदो त इध ज्जेव चिद्विदव्वं । अदुवा का वि विरहवसेणं अरई भादि तदा एदस्स उज्जाणकेलिसरोवरस्स कूलकच्छेण कीलिदव्वं । ( इत्यभिधाय निष्क्रान्ता | )
१ अहमिदानीं भर्तृदारिकया एतानि वस्त्राभरणानि समर्पयितुं किञ्चित् कथयितुं च तव समीपे प्रेषिताऽस्मि ।
२ चित्राङ्गदेन अनुकूलयितुं दत्तानि ।
३ त्वमेव मे पतिः । आत्मा पुनः त्वया लघुना भूत्वा चित्राङ्गदाद् रक्षितव्यः । यतः - स करोति किमपि पश्चात् तनूयते परेषु यः समर्थेषु ।
गोषत्वलघुं आत्मानं कल्पयित्वा हरिणा हतः कंसः ॥ ५ ॥
एष भर्तृदारिकायाः सन्देशः । अपरं च न प्रभवन्ति सिद्धालयनिवासिनां दुरितानि । ततस्त्वया इह एव स्थातव्यम् । अथवा काऽपि विरहवशेन अरतिः भवति तदा एतस्य उद्यानकेलिसरोवरस्य कूलकच्छेन क्रीडितव्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org