________________
महाकविश्रीरामचन्द्रविरचितं अकाण्डकोपिनो भर्तरन्यासक्तेश्च योषितः । प्रसत्तिश्चेतसः कर्तुं ब्रह्मणाऽपि न शक्यते ॥३॥ भवतु, देवी चन्द्रलेखा किमादिशति ? । चेदी - 'अवि पारिस्सं, न उग अन्नस्स पडिवादयस्सं ति आइसइ । देवलकः - मल्लिकायाः कीदृशो निर्बन्धः । चेटी- अवि मरिस्सं, न उण अवरं परिणयस्तं ति निर्बन्धः । देवलकः - तदेवं सम्भाव्यते
उन्मत्तप्रेमसंरम्भादारभन्ते[ ऽत्र कामिनः ? ] । तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ ४॥
तदलमनया मीमांसया । अपरमाश्चर्यमाकर्णय - खेचराणामपि दुर्लभायामस्यां : भूमौ प्रातः सिद्धायतने मया मनुष्यो दृष्टः।
चेटी - 'देवलय ? तं चिय मणुस्सं गवेसिदं भट्टिणीए चंदलेहाए पेसिद म्हि । ता कत्थ सो चिट्ठदि ? ।
देवलकः - विलोकय गत्वा, एष सिद्धायतने तिष्ठति । अहमपि मल्लिकाया दिव्यफलान्युपनयामि । ( इति निष्क्रान्तः । )
॥ विष्कम्भकः॥ (ततः प्रविशति सम्पातमूछितो मकरन्दः । ) मकरन्दः - ( चेतनामास्थाय विलोक्य च सविमर्शम् ) स्वप्नं किं नु ?, किमिन्द्रजालमथवा किं चेतसो विभ्रमो १,
दोषः कोऽपि किमेष मे नयनयोविश्वकसम्मोहकृत् । पाताले त्रिदिवेऽथ किं समभवज्जन्मान्तरं मेऽवरं ?, कोऽस्मि ? कास्मि ? किमस्मि कर्म विद्धत् ?
क्षिप्तोऽस्मि केनात्र च ? ॥५॥
(सर्वतो निरूप्य ) १ अपि मारयिष्यामि, न पुनः अन्यस्मै प्रतिपादयिष्यामीति आदिशति । २ अपि मरिष्यामि, न पुन: अपरं परिणेष्यामि । ३ देवलक ? तमेव मनुष्य गवेषयितु' भट्टिन्या चन्द्रलेखया प्रेषिताऽस्मि । तत् कत्र स तिष्ठति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org