SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं श्रेष्ठी - अवश्यं प्रमाणम् , व्रजत यूयम् । (धूतकारा निष्क्रान्ताः।) श्रेष्ठी - किमभिधानो भवान् ?। मकरन्दः - मकरन्दाभिधानोऽस्मि । श्रेष्ठी - अवश्यमनुष्ठातव्यः प्रतिज्ञातोऽर्थः ? । मकरन्दः - का सन्देहः ?।। श्रेष्ठी -अस्ति मन्त्रजा शरीरजा वा काऽपि क्षुद्रोपद्रवद्राविणी शक्तिः । मकरन्दः - अस्य पर्यनुयोगस्य प्रयोजनसिद्धिरेव समाधानम् । श्रेष्ठी -( विमृश्य सकरुणम् ) महाभाग ! महापुरुषोचितां तामेतामाकृतिमनाकुलतां विनयसम्पत्तिं च विलोक्य तदेतस्मिन्नपायशतसङ्कीर्णे वच्छापरिहारनिवारणाकर्मणि न प्रभवामि भवन्तं व्यापारयितुम् । तदद्यापि विमृश प्रयोजनवैषम्यम् , विचिन्तय जीवितस्य सन्देहम् , विगणय धनस्य पांशुपायताम् । उत्तिष्ठ, प्रयाहि स्वं स्थानम् । अस्मदन्तिके व्यापारान्तरं किमप्यादधानः कालमतिवाहय । बन्धुसुन्दरी- 'पुसया ! वच्च तुमं, जीव चिरं, मह वच्छाए ज विहिणा लिहियं तं भविस्सदि। मकरन्दः - नाहं तादृशो यादृशं यूयं विचिन्तयत, तत् किमर्थमपायसम्पातसन्दर्शनेन सन्त्रासयत माम् ? । अपि च स्वीकृतापायसम्पातः सर्वा सिद्धिं विगाहते । युद्धे हि प्राणसापेक्षो विपक्षैः परिभूयते ॥७॥ ततो विमुच्य कातरतां प्रथयत सौष्ठवम् । कथयत किं मया विधेयम् ? कस्य विधेयम् ? कदा विधेयम् । (श्रेष्ठी बन्धुसुन्दर्या मुखमवलोकयति ।) बन्धुसुन्दरी - महंतो एदस्स अवटुंभो, ता अणुट्ठीयदु समीहिदं । श्रेष्ठी -अस्मद्वच्छाया निशीथसमये देवतापहारनिवारणं त्वया विधेयम् । यावत् प्रयोजनं सन्निधीयते तावत् कथामेकामाकर्णय - इतः संवच्छराद गते षोडशे वच्छरे प्रातरावश्यककरणाय गृहोपवनं गतोऽहम् । मकरन्दः - ततस्ततः । १ पुत्रक ! व्रज त्वम्, जीव चिरम् , मम वत्साया यद् विधिना लिखितं तद् भविष्यति । २ महान् एतस्य अवष्टम्भः, तद् अनुष्ठीयतां समीहितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy