________________
११६
संपा. लक्ष्मणभाई भोजक दित्यद्वितीयनामा परममाहेश्वर[१५]श्रीशीलादित्यस्तस्यानु जस्तत्पादानुद्वयातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मों स्कन्धासक्तां [१६] परमभद्र इव धुर्य्यस्तदाज्ञासम्पादनैकरसतयैवोद्वहन्खेद सुखरतिभ्याम नायासितसत्त्वसम्पत्तिः प्रभावसम्पद्वश[१७]नृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिम(मे)का परित्यज्य प्रख्यातपौर-[१८]षाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसहतिः प्रसभविघटितसकलकलि[१९]विलसितगतिन्नौ च जनाधिरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुष[: शास्त्रकौशलातिशयगणतिथविपक्ष[२०]क्षितिपतिलक्ष्मीस्वयंप्र(गा)हप्रकाशितप्रवीर पुरुषः(१)प्रथमसंख्याधिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुद्धयातः सकलविद्याधिगमवि[२१]हितनिखिलविद्वज्जनमनपरितोषातिशयितसत्त्वसम्पदा त्यागौदार्येण च विगतानुसन्धानाश(स)माहितारातिपक्षमना[रथ] स्थाक्षभङ्गः [२२] सम्यगुपलक्षितानेकशास्त्र कलालोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्र[२३]श्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्यलेादग्राबाहुदण्डविध्वन्सित- [प्रथम ताम्रपत्र पूर्ण]
[ताम्रपत्रा द्वितीय ] [१] निखिलप्रतिपक्षदप्पोदयः स्वधनुःप्रभावपरिभृतास्त्र कौशलाभिमानसकरनृपतिमण्डलाभिनन्दित[२]शासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुद्वयातः सच्चरितातिशयितसकलपूर्वनरपतिर[३]तिदुस्साधानामपि प्रसाधयिता विषयाणां, मूत्तिमानिव पुरुषकारः परिवृध्धगुणानुरागनिर्भरचित्तवृत्तिभिर्मनु[४]रिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापम्का(पः का)न्तिमानि(न्निर्वृतिहेतुरकलङ्कः कुमुदनाथः, प्राज्यप्रतापस्थगितदि[५]गन्तराल[:] प्रध्वन्तितधान्तराशिस्त[स्ततोदितस्तविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमति बहुतिथप्रयोजनानुबध्ध(न्ध)मागमपरि[६] पूर्ण विदधानस्सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेऽनुरूपमादेश ददद्गुणवृद्धिविधानजनित संस्कारः साधूनां राज्यशाला[७]तुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणमृदुहृदय[:], श्रुतवानप्यगर्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निर[७]सिता दोषवतामुदयसमय समुपजनित जनतानुरागपरिपिहितभुवनप्तमर्थितप्रथितबालादित्यद्वितोयनामा परममाहेश्वरः [९] श्रीध्रुवसेनः कुशली सर्वानेव यथा सम्बध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय दशपु[१०]रविनिर्गतवलमीवास्तव्यवलभोचातुर्विधसामा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org