________________
श्रीरत्नाकरसूरिशिष्यविरचिता
श्रीवीरस्तुति-द्वात्रिंशिका विनम्रदेवासुरमौलिमालावतंसहंसावलिसङ्गचङ्गम् । जगत्त्रयानन्दिरमानिवासं क्रमाम्बुज वीरजिनस्य नौमि ॥१॥ गुरुः सुराणामपि तेऽखिलानां न वीर ! धारो गणने गुणानाम् । को वा स्वयम्भूरमणस्य संख्यां दक्षः समाख्यातु पयःकणानाम् ॥२॥ तथाऽपि कत्तुं कलये स्तवं तेऽभीसं(भप्सां) ततो लिप्सुरहं विमूढः। . यद्वा विलोभाकुलितं जनानां मनो विजानाति न किञ्चिदीश !॥३॥ सेवापरा वीर ! सुराः सदा ते तद्गेहदासाः किल कल्पवृक्षाः। तैः साकमाकर्ण्य तवोपमानं न गर्हते कस्य मनो बुधस्य ॥४॥ जन्माभिषेकावसरे सुराणां शिलोच्चयः कम्पनकैतवेन । . तवाहिसंस्पर्शवसे(शे)न धन्यो ननत हृष्टश्चलसानुबाहुः ॥५॥ सुरोत्करे कुम्भकरे सुरेशाऽसहत्वसङ्कल्पनिकारकृन्नु । वीरक्रमाङ्गुष्ठशिखाप्रणुन्नो मेरुः शिरोधूननमाततान ॥६॥ सरोऽहिरूपः किल बालकेलावभीरुभावं भवता श्रितेन । क्षिप्तस्तव व्योमनि वैरिवर्गे स धूमकेतुस्थितिमाचचार ॥७॥ दम्भोलिदण्डोपममुष्टिघातव्यथागलदर्पभरः सुरोऽसौ। विहाय भोमं च विधाय रम्यं वपुस्तवांहो प्रणनाम वीर ॥८॥
लोक्य लोकातिशयं तदेतत् ते बाललीलायितमाललाप । त्वां 'वीरम्' आखण्डलमण्डलीति ख्याति क्षितौ नाम जगाम कामम् ॥९॥ ज्ञानत्रयालोकितविश्वभावं भवन्तमहेन्तमऽनाकलय्य । चक्रे पितृभ्यां तव लेखशालाविधिस्तमत्राऽनुचितं विचिन्त्य ॥१०॥ अमें खलेखाhत (!) लेखशाली स एष लेखाऽधिपतिस्तवाऽऽसीत् । त्वां रत्नसिंहासनसंनिविष्टं पप्रच्छ वैयाकरणं सतत्त्वम् ॥११॥ पुरो यदिन्द्रस्य जिन ! त्वयोचे तत्तेन जैनेन्द्रमिति प्रतीतम् । समासवाक्यागमसन्धिसंज्ञामनोहरं व्याकरणं किलाऽऽसीत् ॥१२॥ . त्वया चिरं तत्त्वविदा गुरूणामनुग्रहायावसता ग्र(गृ)हेषु । व्युत्पादितः शेषजनोऽत्र यस्मात् “महाजनो येन गतः स पन्थाः" ॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org