________________
नगीन जी शाह
निजधर्मणोऽपमानं वित्तायुमर्मवचनं मन्त्रम् । गृहदुश्चरितं च तथा प्रकाशयेज्जातु नो मतिमान् ।।६५।। मूर्व पण्डितमान्यो मूर्खमन्योऽपि पण्डितो मान्यः । पाण्डतमूर्खान्तरत स पण्डित पण्डितमन्य ॥६६।। विच्छिन्नश्रुतवचन. खण्डस्फुटिताक्षरोक्तिवाचाल । खण्डितपण्डितमान्यो न खण्डित पण्डितंमन्य ॥६७॥ व्याकरगतर्कछन्दोज्योतिवैद्यश्रुतिस्मृतिपुराणै । षड्दर्शनमर्मज्ञ सार्वपथीनो भवेत् कुशल ॥६८।। तद्विपरोतो मूर्खा गणयति बुधमान्यमात्मनाऽऽत्मानम् । शठवूादिस्तुतिभि स च मूीशरोमणि प्रवर ॥६९॥ तीव्रक्रोधाहकृतिमायालोभादयो हि सन्ति निजे ।। पात्रमपकीर्तिगुणिनां तत पर प्राप्यते कुत्र ॥७॥ अकथितपरमर्मज्ञो द्वन्द्वालापावरोधसि परस्य । प्रविशेन्नानाहूतो नाङ्गस्पर्शी भवति चतुर ॥७१।। योपृष्टो बहुभाषी परासनग्राहको बहुविरुद्ध । बहुहास्यमर्मवक्ता विद्वेष याति तत्क्षणत ॥७२।। " वक्तुर्नवरसमर्म स्वयमनभिज्ञो विनिन्दते तस्मै । विद्वद्वचनेष्वरुचिनिगद्यते ज्ञानदग्धनरः ॥७३॥ गम्मीरमातेविदग्धास्तत्त्वविद. सर्वशास्त्रकुशलाश्च । नीरागद्वेषरता दुर्लभ्या मानुषे लोके ॥७४।। विख्यातकीर्तिधवला सत्कायो दानशीलिततपोभि । प्रगुणा धर्मणि चतुरा. किमुत मृता सन्ति जीवन्तः ॥७५।। मुनिपश्ममेरसुगुरो' पदारविन्दद्वयैकमधुपेन । मुनिपद्मसुन्दरण कृतमिति कुशलोपदेशमिदम् ॥७६॥ कुशलोपदेशकाश निजहदि सदने दधाति य कुशलः ।
तस्याक्षयनिधितुल्या बुद्धिर्न क्षयमवाप्नोति ॥४७॥ इति श्रीपद्ममेरुशिष्यपद्मसुन्दरविरचितं कुशलोपदेखकोशामिधं लिखनव. संदर्भत
पूर्णीकृतम् ॥