________________
चन्द्रदूतकाव्यम्
संवत् १६५३ वर्षे कार्तिकसुदि ८ दिनसोमवा[स]र पण्डितपुरन्दरपण्डितश्रीश्रीश्रीश्रीश्रीश्रीश्रीकमलविजयगणिशिष्य गणिकीर्तिविजयपठनार्थं मुंहतादेवालिखितं निर्जरार्थे जालोरनगरे ॥
एतादशि यमकान्वितानि काव्यानि श्लिष्टानि अतः तेषामर्थो न सरलतया स्यात् । अतः प्रासादगुणस्य हानिः सजायते परन्तु चमत्कृतिप्रदानि तु अवश्यमेव भवन्ति अतः वाचकानां रुचिकराणि जायन्ते । यद्यपि क्लिष्टत्वाद्रसक्षतिस्तु अवश्यमेव भवति तथापि यमकत्वात्पठने पदानां छेदते च आनन्दोऽपि भवति विदुषाम् ।
गच्छतः स्खलनं कापि भवत्येव प्रमादतः इसन्ति दुर्जनास्तत्र समादधति पण्डिताः ॥ इति शम् ।
चन्द्रदूतकाव्यस्य वस्तुनिरूपणम् । जम्बूकविश्चन्द्रदूतकरणे प्रवर्तमान आदौ मङ्गलार्थमिष्टदेवतां स्मरति ।
वर्षाकाले चन्द्रज्योत्स्नया पीड्यमाना अहंकारात् गतबुद्धिः सती या स्त्री प्रिय लसीकृत्य ऊचे । या मया सह प्रचल इति विनयं धारयन्तं प्रियं न जगाम | तां प्रियहितां मां हे शिशिरकिरण ! त्वं रक्ष । तव चन्द्रिका प्रिययुक्तायां वध्वामन्तःकरणविकृतये भवतु । अपि च हे चन्द्र ! अपरमपि त्वं शृणु । यदि कथमपि कान्तः दृक्पथं गच्छेत् तदा सस्मितं क्षणमिदमभिधेयः । हे शठहृदय | विरहदहनदाघा वन्महेला खिद्यते तथापि त्वया किमास्यते । वियति हंसा हंसीयुक्ता रत्या भ्रमन्ति हे त्यक्तदार ! रागयुक्तं मम चेतः सर उपान्ते सरति । हे पथिक ! त्वां विना मम शिरः शोभारहितम् , वक्षः मुकारहितं, शं च विनाशं प्राप्तम् । अधुना तरुणो मन्मथाधोनदेहां निजस्त्रीमिव कलमः नलिनी प्रणमति । धवलकैरवखण्डः, कमलमपि मम विनाशाय प्रभवतः । मधुकरः अपि मधुरमधुरसाढयं पद्मिनीनायिकाया अम्भोरुहास्यम् आपोयते । कामपुलिन्दः मधुपराजीज्याजटङ्कारतः निर्मलाकालजलमारूढः इमं जनं विनाशं नयति । मयूरी च भा युक्ता सुखं भुङ्क्ते अहं तु एकाकिनी अतः न सुखमनु भवामि । गच्छता भवता उपवनम् , रत्यगारं उपा च न व्यगणि । हे शठ ! इयं तव भार्या कथं स्मृतिपथं नोपयाति ? यद्वा ज्ञातं तव प्रेयसी अन्या अतोऽहं त्वया न स्मर्ये । तब अन्या नारी रतवरदा जाता तर्हि अबलाया मे मरणमेव चेष्टा भवतु । हे अनृतवादिन् । त्वमेव मम वल्ल भाऽसि इति वचनम् तव क गतम् ! पुरुषो भयेन असत्यं भाषते परन्तु नाई