________________
५८
शिवभद्रकृतम्
ज्योत्स्ना शुकपरिधाना आशायत्तस्य
जनयन्ति शोकमतुलमाशा यत्तस्य । अद्यापि यच्च कपयः समाहियन्ते
न स्खलितमुपनेतुमर्हति समा हियं तेन ॥९३।। शां० ज्यो० ॥ तेन मारणेन च लक्ष्मणो मम हियं लज्जा स्खलित क्षणमुपनेतुं दौकयितुम् अर्हति योग्यः भवति यत् यस्मात् तस्य रामस्य (आशाः दिशः शोकं शुचं दुःख जनयन्ति । कोदशम् । अतुलम् अप्रमाणम् । कीदृशस्य ? तस्य) आशायत्तस्य मनोरथाधीनस्य । कीदृश्यः आशाः ? ज्योत्स्नांशुकपरिधाना चन्द्रकान्तवत्रच्छादनाः । यतः तथा यच्च यस्मात् च अद्य अपि अधुना अपि कपयः वानराः न समाहियन्ने न मील्यन्ते ॥१३॥ वीक्ष्य शरन्मुखमुडुपतिविशेषकोपेतं
प्रणयेन वर्तमान विशेषकोपे तम् । कृत उपकारः सख्यं न वञ्चनामेति
अस्मद्विधमनुगमयन्नवं च नामेति ॥९४॥ शां० ॥ वीक्ष्य ।। स लक्ष्मणः न वञ्चनां स्खलनम् एति गच्छति । किं कारयन् ? अनुगमयन् योजयन् । कथम् ? अस्मद्विधं मादृशम् । कम् अनु. गमयन् ! तं रामम् । कथम् ! कृत उपकारः सख्यं न वचनामेति । कृतः विहितः अस्माभिः भवतामुपकारः तारासमर्पणः (?णम्) लक्ष्मण ! तथा सख्यं मित्रत्वं च नवं नूतनं कृतं भवद्भिः सह अस्माभिः । कथं नाम व्यक्त इति अनेन प्रकारेण । कीदृशम् तम् ! यतेमानं तिष्ठन्तम् क ! विशेषकोपे अधिकक्रोधे । किं कृत्वा ! वीक्ष्य अवलोक्य । किं तत् ! शरन्मुख शरत्कालप्रारम्भः । कीदृशम् ? उड्डपतिविशेषकोपेतं चन्द्रतिलकयुक्तम् ? केन वीक्ष्य ? प्रणयेन प्रीत्या ॥९॥
१. क्षा० 'मामद्वियं' अस्ति । २. म. मास्ति । ३. म. 'मनोरथाधारस्य' अस्ति । १. अस्य लोकस्य पु० टीका नास्ति । ५. क्षा० मा महश अस्ति । ६. क्षा० नास्ति। ७. अस्य श्लोकस्य पु० टीका नास्ति ।