SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीमानाककृतम् घनपङ्क्ति । स्वनविजि० गर्जितपरिभूतगजराजा । तथोपेन्द्रो हरिनिंद्रां स्वाप सरति गच्छनि । कीदृशो हरि । सुरपापहा सुराणां देवाना पाप हन्ति इति सुरपापहा ॥ गीत्यार्या ॥१४॥ स्वामिना विप्रयुक्तां प्रिया यौवने सत्कदम्बार्पिते वाति वायौ वने । प्राप्य मेघान् कृता भूरहंसा यकैः कान्तकामो भिनत्यन्वहं सायकैः ॥१५॥ कान्तकामः कमनीयोऽनङ्ग भिनत्ति विदारयति । कथम् । अन्वहम् प्रतिदिनम् । के ? सायकैः बाणैः । काम् ? प्रियाम् । कथम्भूताम् विप्रयुक्ताम् विरहिताम् । केन । स्वामिना प्रियेण भर्ना । कस्मिन् ? यौवने तामण्ये । कस्मिन् सति ? वायौ वाति वहनि सति । कीदृशे - सत्कदम्बार्पिते सन्ति शोभनानि यानि कदम्बपुष्पाणि तैरर्पितो दौकितस्तन्मुक्त इत्यर्थ । कस्मिन् वाति : वने कानने । किं कृत्वा भिनत्ति ? विदारयति । प्राप्य आसाथ | कान् ? मेघान् । कै मेधै ? यकैः । कृता विहिता । काऽसौ : भूः मही। कीदृशी । अहंसा हंसरहिता । यद्वा हे कान्त ! प्रिय ' कामो भिनति इत्यामन्त्रणम् ॥१५॥ स्रग्विणी ॥ पतत्याशु पौरन्दरं के प्रभूतं जगद्वर्तते वायुना कम्प्रभूतम् । बजत्यापगाकूलमोधैविनाशम् __लभन्ते च काश्चिम कान्त विना शम् ॥१६॥ पतति वहति । किं तत् । क जलम् । कथम् । आशु शीघ्रम् । कीदृशं जलम् । पौरन्दरं ऐन्दम् । पुन' कोहक ' प्रभूतम् प्रचुरम् । तथा जगद् भुवन वर्तते । कीदृशम् । कम्प्रभूतं कम्पनशीलम् इव । भूतशब्दस्योपमावाचित्वात् । केन ' वायुना वातेन । तथा ब्रजति गच्छति । किं तत् ' आपगाकूलम् नदीतटम् । कम् ' विनाशम् । के । ओघैः प्रवाहै । तथा काचिद् वनिता न लभन्ते न प्राप्नुवन्ति । किं तत् । शं मुखम् । कथम् । विना अन्तरेण । कम् ' कान्तम् प्रियम् । भुजङ्गप्रयातम् ॥१६॥ जलवन्तः मापीठं समन्ततो राजयन्ति केदाराः । शोकमहाप्रतिपक्ष प्रियतमविरहे जयन्ति के दाराः॥१७॥ जळ० । केदारा वप्रा ।क्ष्मापीठं भूतलम् । समन्ततः सर्वतो राजयन्ति शोभयन्ति । कीदृशाः जलवन्तः पयोमृता । तथा के दाराः काः कान्ता. शोक
SR No.520751
Book TitleSambodhi 1972 Vol 01
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy