________________
अनुसन्धान-७६
टी० या चक्रवाकी तैरश्चयोगेन - तिर्यग्भावेन, विवेकसेकमुक्ता - हेयोपादेन(य)ज्ञानयोगरहिता विद्यते । सापि चक्रवाकी, भो जिन[वतंस] - जिनशिरोमणे, कान्तिकलत्वदास्यचन्द्रोदये - दी[प्ति]कलासहितत्वदास्यचन्द्रोदये विलोक्य(कि)ते - दृष्टे सति, नृत्यति - नृत्यं करोति, किं पुनः सचेतन इति भावः ।
पुरः प्रकीर्णानि कपोलपाली-तले तवाच्छे प्रतिबिम्बितानि । निभाल्य संदिग्धि बुधो जनः किं चन्द्रस्य मध्ये कदलीफलानि ॥३॥
टी० हे पार्श्वनाथ, तव पुरः - अग्रे, प्रकीर्णानि पूजार्थं धृतानि कदलीफलानि, तवैव अच्छे - निर्मले कपोलपालीतले - भालदेशपृष्ठे, प्रतिबिम्बितानि - आदर्शवत् --- गतानि, निभाल्य बुधः - पण्डितो जनः संदिग्धे संशयो (?) शङ्कां करोति किं चन्द्रस्य०, कपोलमध्ये(ध्यस्य?) चन्द्रोपमत्वात् । यो निर्जितैः पञ्चशरेण चक्रे कण्ठे कुठारः कमठे ठकारः । अकीर्तिनाट्यस्य च वाद्य( दि)तोऽलं साम्यं क्व तेषां द्युसदां त्वयास्तु ॥४॥
टी० पञ्चशरेण कामेन निर्जितैः - वशीकृतैर्देवैः कण्ठे कुठारश्चक्रे - कृतः। --अकीर्तिनाट्यस्य - अयशोनृत्यस्य अलं अर्थे वादितः - वादनायोपक्रान्तः । ठकार - ठ इति शब्दो । कमठे पात---पे चक्रे कृतः । पाताले येषां अपकीर्तिर्जाता, तेषां --- त्वया - भवता सह क्व साम्यं - सादृश्यम् ? अस्तु - भवतु । -- कोऽपीत्यर्थः ।।
अभव्यदौर्भव्यतयाऽङ्गभाजां येषां त्वदास्ये सुभगेऽपि दृष्टे । सन्तापसम्पत्तिरुदैति तेषां अयं शशी वह्निकणान् प्रसूते ॥५॥
टी० येषां अङ्गभाजां - प्राणिनां, सुभगे - सुन्दरे, त्वदास्ये - त्वन्मुखे, दृष्टे - विलोकितेऽपि, -- अभव्यदौर्भव्यत्वेन च(?) सन्तापसम्पत्ति - १ःखपरम्परा, उदेति - प्रकटीभवति, तेषां प्राणिनां, अयं शशी - चन्द्रः, वह्निकणान् प्रसूते - जनयति ।
त्वद्दानलीलादलितप्रतापे देव! धुकुम्भस्तव शक्तिमाप्तुं । भृगोः पतन्नादमिमं तनोति ठंठं ठठंठं ठठठं ठठंठः ॥६॥