SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जुलाई-२०१६ सेवकवृन्दम्, अयः- [शुभावहं ?] दैवं, स विद्यते यस्य तद् अयवत्अभं.......भाग्यभाग, जनय- निष्पादय ॥१३॥ परम ! मा नय माभवमीश्वरा-ऽपर ! ममाऽऽनय संयममञ्जसा । परम मानय मा निजसेवकं, परममानय मे गुणसम्पदम् ॥१४॥ अवचूरिः- अस्मि[ ]ति पादं क्रियास्तथाहि [परम-] स्रष्टा, ईश्वरस्वामिन् !, मा- मां, [भवं - संसारं], मा नय- मा प्रापय, किन्तु पारं नय; हे अपर !- न विद्यन्ते परा- वैरिणो यस्य सोऽपरस्तस्याऽऽमन्त्रणम्; मम संयममञ्जसा- वेगेन आनय, हे परम ! - परा- प्रकृष्टा, मा- श्रीर्यस्य स परमः, तस्याऽऽमन्त्रणम्; मा- मां, निजसेवकं- निजभक्तं, मानय- गणय; तथा मे- मम, गुणसम्पदं- गुणसम्पत्तिम्, अमानय- न विद्यते मानंपरिमाणं यस्याः साऽमाना, ताममानां कुरु - अमानय, णिजि पञ्चम्या हौ च; कथं ? परं- प्रधानं यथा स्यात् प्रधानतरप्रकारेण मम गुणाननन्तान् कुरुष्वेति भावः ॥१४॥ समदयोदय देव ! तवाऽरते-ऽसमद ! यो दयते हृदयं मते । समद ! योदय ईरितसंसृते ! - ऽसमदयोदयतेऽस्य निरन्तरम् ॥१५॥ अवचूरिः- हे देव !, हे समदयोदय ! - समः सर्वजीवतुल्यः, दयाकृपा, तस्या उदयो यस्य स समदयोदयस्तस्याऽऽमन्त्रणम्; हे अरते !- न विद्यते रतिर्मनोहरशब्दादिविषयो रागो यस्य सोऽरतिस्तस्याऽऽमन्त्रणम्; (हे समद !सर्वद !,) हे असमद ! - असमा- लक्षणया वैरिणस्तान् द्यति- छिनत्तीति डे असमदस्तस्याऽऽमन्त्रणम्; यो - जनस्तव मते- शासने हृदयं दयते- ददाति; हे ईरितसंसृते !- विक्षिप्तसंसार !, हे असमदे !- सह मदेन- दर्पण वर्तते यः स समदः, समदश्च स इश्च- कामश्च - समदेः, न विद्यते समदेर्यस्य स तथा, तस्याऽऽमन्त्रणमः अस्य- जनस्य, योदयो - या- श्रीस्तस्या उदयोऽभ्युन्नतिः परमैश्वर्यश्रीसमुदय इत्यर्थः, निरन्तरम् ओदयते- आङ्-उत्पूर्वस्य अयि गतावित्यस्य धातोरिदं रूपं, समन्तादागच्छतीत्यर्थः; हे देव ! यस्तव शासनलीनमनाः स्यात् स स्वर्गापवर्गसौख्यश्रिया समाश्रीयत इति भावः ॥१५।।
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy