SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ इति विनेयलवश्रीमुनिसुन्दरसूरि० श्रीरैवतकाऽचलालङ्कारश्रीनेमिस्तवमयः श्रीरैवतगिरिश्रीनेमिचैत्यचित्रान्तहूंदे गर्भागारमूलभित्तिद्वारबन्धनामा प्रथमो महातरङ्गः । चैत्यषट्कबन्धचित्रमहाहदे च मूलतश्च [१४] ॥ . जगतां यो जयं चक्रे लीलयाऽपि महाभटः । सोऽपि कामरिपुः स्वामि-स्त्वया भग्नः स्फुरत्प्रभः ॥१४॥ २० यत्नात् स्तोत्राणि शक्रोऽपि करोत्यविरतं तव । एवमेव यतः श्रेयो नीराग! महिमार्णव! ॥१५॥ - २१ द्वाभ्यां पङ्क्तिद्वयस्थिताभ्यां गर्भागारस्य तलबन्धः ॥ एवमेकादशभिः गर्भागारबन्धः सम्पूर्णः ॥ भदन्तमिद्धातिशयाभिरामं महोदयानन्तसुखं विरागम् । गताखिलाज्ञानतमःप्रचारं रवाऽस्तमेघं जिनमानमामि ॥१६॥ २२ वचःसुधा यस्य भवार्त्तितापं पराभवं प्रापयतेऽङ्गभाजः ।। जगत्त्रयीवन्द्यपदारविन्दं दमीश्वरं तं जिनमाश्रयामि ॥१७॥ ' २३ द्वाभ्यां पङ्क्तिद्वयस्थिताभ्यां मण्डपतलबन्धः ॥ महामुने! वीतसमग्रदोषं निरञ्जनं त्वां शिवपुर्यधीशम् । योगीश्वरं ध्येयपदं विनम्य बुधाः कृतार्था न परं नमन्ति ॥१८॥ २४ विश्वोत्तर! ब्रह्म - - निधेहि, निरञ्जन! ज्ञानमयाऽनपाय! । सम्यग् ममाऽधीशनिजस्वरूपो-पलम्भमज्ञानतमो निहत्य ॥१९॥ २५ समण्डपप्रासादस्य पीठे द्वाभ्यामधस्तनमहापङ्क्तिरूपतलबन्धः ॥ महोदयाध्वानमनादिमोह-ध्वान्तप्रचारेऽपि हि दीपिकेव। . तवैव वाणी प्रकटीकरोति भव्याङ्गिनं तत्त्वरुचीवितत्य ॥२०॥ २६ शमाय वाणी भवतो भवार्त्तिदवानलानां भवति प्रकामम् । भव्याङ्गिनां मोदरसप्रवर्षं कादम्बिनीवादधती समन्तात् ॥२१॥ २७ द्वाभ्यां समण्डपप्रासादपीठे उपरितनमहापङ्क्तिरूपतलबन्धः ॥ ममत्वमुक्ताक्षयशर्मधाम! नामामृतप्रास्तभवार्तिदाव! । योगस्य कोटिं परमां प्रयात! तिरस्कृताऽनन्यज! नन्द नित्यम् ॥२२॥ २८ विनम्रदेवासुरमानवेश! यशोजितश्वेतरुचेऽस्तकाम! । समग्रवेदिन्! जय मुक्तलोभ! त्यक्ताघ! नेमे! शिवशर्मदाता(तः?)! ॥२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy