SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १६ स शिवं वशिराजो मे देयाद् भुवनभासनः । पार्श्वः श्रेयोलतासारो रोगादिहरसंस्तवः || ३५॥ वदन्ति मदनाद्यैस्ते जितानामपि संस्तवम् । न जानन्ति गताऽज्ञान-नरा ये सद्गुणांस्तव ॥ ३६ ॥ द्वाभ्यां तोरणम् ॥ शस्तप्राप्तभवातङ्क! जिन! राजितकान्तिभिः । भियां [सं]सर्गभित्! पार्श्व! वितर स्तुत! मे शुभम् ||३७|| कलशः ॥ भवन्ति विश्वेऽतिशयाः प्रसिद्धा - स्तवाऽप्रमाणा विहितप्रमादे । देवाधिदेवत्वगुणप्रतीत्यै श्रीपार्श्व! देवान्तरनिस्समान! ||३८|| नतोऽस्मि पंचासरपार्श्व! नेतस्तव क्रमौ तेन भवार्त्तिभीतः । तन्मां कृतार्थीकुरु शक्रवन्द्य! मुक्तिप्रदानेन जिनाऽस्तलोभ ! ॥ ३९ ॥ द्वाभ्यां गोमयमण्डलीबन्धः ॥ एवं स्तुतो भक्तिभरेण नाथ! मयाऽपि पंचासरपार्श्वदेव ! । देया ममाऽऽरोग्य-सुबोधिलाभौ प्रसादमाधाय जगच्छरण्य! ॥४०॥ स्तुतिमिति तनुते जिनेन्द्र! यस्ते मघवमहामुनिसुन्दरस्तुतां ! । स भवति गुणसम्पदा समस्ते फलमिति तद् वितराऽचिरान्ममाऽपि ॥४१॥ अनुसन्धान- ६४ इति विनेयलव श्रीमुनिसुन्दरसूरि ह० श्री... महाविज्ञप्तित्रिदशतरङ्गिण्यां जयश्र्यङ्कायां द्वितीये श्रीगूर्जरावती - तन्नरेश्वर - श्रीपत्तननगरवर्णनादिश्रोतसि श्रीचैत्यषट्कमहाहूदे श्रीपंचासरचैत्यान्तर्हदे सम्पूर्णीभूतेऽग्रतो गोमयमण्डलीयुततोरणबन्धनामा तरङ्गः पञ्चमः ॥ मूलतश्च सतोरणोऽपि सम्पूर्णश्चायं पंचासरपार्श्वचैत्यान्तर्हृदः ॥ अथ श्रीशत्रुञ्जयमहातीर्थालङ्कार श्रीयुगादिदेवप्रासादबन्धचित्रनामा गिरिबन्धस्वस्तिकतोरणबन्धपूर्वकः श्रीपुण्डरीकशिखरशेखर श्री ऋषभप्रभुस्तवमयो महाहूदः (अन्तर्हृदः?) प्रस्तूयते । तत्र पूर्वं तद्गिरितोरणचित्रतरङ्गौ तद्युगादिस्तवस्वरूपावत्र ज्ञेयौ । तदनु तच्चैत्यचित्रस्तवश्च ॥ तथाहि - Jain Education International जयश्रीणां प्रदातारं स्थितं शत्रुञ्जयाचले । स्तुवे श्रीमयुगादीशं तद्गिरीन्द्रादिचित्रतः ॥ १॥ उपत्यकाबन्धः ॥१॥ ४२ श्रीतीर्थनायक! यशोभृतविष्टपाऽष्टकर्मद्विपद्विपरियो(पो)! जगदकेतात! । रत्यै त्वदागमगतार्थविदां न दानिन्! देवान्तरं वितर तन्निजदर्शनं मे ॥२॥ ४३ For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy