________________
१७६
अनुसन्धान-६३
हुसिंगशाही नृपतौ विपन्ने, दिवंगते श्रीनरदेवसझे । नृपोऽजनि श्रीमहमूदनामा, सङ्ग्राममन्त्रीश्वरऋद्धिधामा ॥७५॥ भूर्यद्दिग्विजये धराधरबलात् तस्थौ पतन्ती त्वधो, भूध्राः सालबलादमी बलबलात् तान्यत्र भूभुगबलात् । भूपा दण्डबलादसावसिबलात् सो(सोऽयं?)ऽप्यसिर्दोर्बलात्[ऽथा?], सो तत् श्रीमहमूदशाहिनृपतिः प्रौढप्रतापो जयी ॥७६।। यत्सैन्योच्छलितं रजोभरमरं स्वर्गे गतं सत्वरं, तेनाऽऽसीदनिमेषमर्तिसहितं चक्षुःसहस्रं हरेः । तच्छान्त्यै घनवाहनोऽभवदसौ ग्रामे पुरेऽतो नदी सोऽयं मालवमण्डले विजयते श्रीग्यासदीनो नृपः ॥७७॥ सामान्मे प्रतापो जनपदविजयः प्राज्यसाम्राज्यवृद्धिबुद्धिर्विश्वप्रसिद्धिर्विशदतरयशोव्याप्तिरुर्वी कराप्तिः । . तस्मादस्मै परस्मै सकलविषयगे रामि भूपत्वमेवं, ध्यात्वा राज्ञा कृतोऽसौ नगदलमलिकः शौल्किकः कोशयुक् च ॥७८॥ शून्याशून्यभवं नवं नवमितं येऽर्थं विदुः सङ्गतं, विन्दुं बिन्दुमिमं जडं जलमहो ! जल्पन्ति शब्दं पुनः । सत्यष्टादशभिः स चित्रमथ तैः श्लोकोऽस्य वर्णैः कृतो, नो मात्येष जगत्त्रयेऽपि यदलं तच्चित्रचित्रं जने ॥७९।।
अव० - अहो इति सम्बोधने । अहो सन्तो भवन्तो विचित्रं चित्रं पश्यन्तु । तैरष्टादशभिः वर्णैः अस्य- श्रीसङ्ग्रामस्य स सर्वप्रसिद्धः श्लोको- वर्णनरूपः कृतः । तैः कैः? ये वर्णाः शून्याशून्यभवं नवं नवम् अर्थं संगतम् इतं- मैत्रीप्राप्तमेतावता विरोधरहितं विदुर्जानन्ति, 'विदक् ज्ञाने' विद्, वर्तमाना अन्ति 'तिवां णवः परस्मै' अन्तिस्थाने उस् । ये वर्णाः शून्यत्वे शब्दस्याऽन्यार्थं कथयन्ति, अशून्यत्वे पुनः तस्यैव शब्दस्य अन्यमर्थं कथयन्ति । अतो नवं नवं शब्दार्थयोर्वाच्यवाचकसम्बन्धादनुक्तमपि शब्दस्य ग्रहणम् । अथाऽर्थस्याऽशेषविशेषछेका लोकाः स्तोकाः, परमक्षराणां वाचयितारो घना जनाः, ततस्ते शुद्धाक्षरवाचकाः सन्ति । तन्निराकरणायाऽऽह - ये वर्णा इमं प्रत्यक्षं विन्दुशब्दं बिन्दुशब्दं जल्पन्ति, बिन्दुं पुनर्विन्दुं, जडशब्दं जलं जल्पन्ति, जलं जडम् । अथ चेत् सत् ततस्तदा भवतु यतः स सत्यः । अन्योऽपि यः सचित्रश्लोकः स अष्टादशभिर्वर्णैरक्षरैर्भवति, तत्र चित्रे शून्याशून्यभवाः- सबिन्दुनिबिन्दुशब्दजाताः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org