________________
१६६
अनुसन्धान-६३
मेरुर्ध्यात्वैवमेकं कलकनकमयं प्राहिणोत् स्वीयकूटं, तच्चेहाऽऽगत्य तस्थौ तदनु सुमनसः स्वागताऽर्थे किलोचुः ॥१०॥ कस्त्वं गोत्रोऽस्यदोऽवक् सुरगिरिशिखरं श्रीभवत्सेवितं प्राक्, कृष्णत्वं तर्हि कस्मात् पथि खगकिरणाश्लेषशीतादिभावात् । तैर्घष्टं भूमिपीठे सदृषदि समभूत् स्वर्णरेखा ततैषा, ज्ञात्वा रायं बतेति प्रकटमभिहितं रैवताख्या ततोऽभूत् ॥११॥ स्वयं कल्याणकल्पोऽयं, द्विधा कल्याणदः सताम् ।
अतः श्रीनेमिनाथेना-ऽवाप्तं कल्याणकत्रिकम् ॥१२॥
अव० – कल्याणं- सुवर्णं तेन कल्पो- मनोज्ञः । माघकाव्येऽप्यसौ स्वर्णमयो निरूपितोऽस्ति । कल्याणं- मङ्गलं मोक्षश्च ॥१२॥
सुधाभुग्भिः सुधाकुण्डं, गजेन्द्रपदसञकम् । न्यस्तं स्वर्गात् सहाऽऽनीतं, तत्र स्नात्रकृतेऽर्हताम् ॥१३॥ • प्रभासतीर्थं प्रवरं निरीक्ष्य, श्रीसोमनाथादिविशिष्टदेवाः । पूर्वं निवासं विदधुश्च तेन, श्रीदेवकं पत्तनमत्र जज्ञे ॥१४॥ जिनेन्द्रकान्त्या सितजातकेशा, शिरो धुनन्ती वरमूर्तिहर्षात् ।
डोल्लत्शिरस्त्वं लभतेऽष्टवर्षा, चन्द्रप्रभागे विरदाऽत्र बाला ॥१५॥ अव० – अष्टवर्षा स्वभावेन विरदा- दन्तरहिता भवति ॥१५॥
या यादवानां वसतिवरेण्या, सा द्वारका यत्र पुरि चकास्ति । श्रीजीर्णदुर्गप्रमुखा अनेके, शैला विशालश्रितलोकपालाः ॥१६॥
अथ श्रीयादववंशवर्णनम् - लक्ष्मीयुक्तो बलभ्राट् समितिकृतमतिः सन्महानन्दकार्याऽऽशाकृत् प्रद्युम्नशाली नरकगतिहरः शङ्खचक्राङ्कपाणिः । यस्मिन् गोपालगेयो बलिरिपुमथनोऽरिष्टनेमिर्जिनोऽभूद्, जीयात् श्रीयादवाख्यः श्रितशरणजनाधारभूतः स वंशः ॥१७॥
अव० - जिनपक्षे लक्ष्मी:- शोभा, कृष्णपक्षे लक्ष्मी:- प्रिया । बलंअनन्तबलं बलदेवश्च । समितयः- ईर्याद्याः, समित्- सङ्ग्रामश्च तत्र । सतां- साधूनां महानन्दो- मोक्षस्तत्कारिणी या आशा- इच्छा तां कारयति यः सः । कृ० - सद्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org