SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६४ अनुसन्धान-६३ पाटण-हेमचन्द्राचार्य जैन ज्ञानमन्दिरमां सचवायेली हस्तप्रतरूपे ज उपलब्ध थाय छे. अप्रकाशित आ कृतिने प्रकाशमां लाववा माटे सम्पादक मुनिवरो खरा धन्यवादना अधिकारी छे. वाचकोना अवलोकन माटे 'श्रीनेमीश्वरजिनप्रासादप्रशस्ति-सावचूरि' थोडाक सुधारा साथे अत्रे पुनर्मुद्रित करी छ – श्रीनेमीश्वरजिनप्रासादप्रशस्तिः । ज्ञात्वा ज्ञानबलाद् भवाष्टकभवां राजीमती स्वां प्रियां, यो भोगी किल निर्वृति जिगमिषुर्यद् द्वारदेशं ययौ । अस्या एव निमन्त्रणाय तदहो! वेद्मीह च्छद्मापरं, सोऽयं वल्लभवल्लभो विजयते नेमीश्वरो योगयुक् ॥१॥ अवचूरिः – स श्रीनेमीश्वरश्चेद् वल्लभवल्लभो न भवति तर्हि योगयुक् कथं स्यात् अन्येषां तीर्थकृताम् ? कुत्रचित् प्रियाया द्वारदेशं याति तदहं वेद्मि तस्याऽस्ति सहयोगो, नास्ति नेमीश्वरस्य, रैवताद्री मोक्षे च राजीमत्या सहयोगो चाऽस्तीति । अन्योऽपि य ईश्वरो- लक्ष्मीवान् पुमान् स निर्वृति प्राप्तुकामो यत् प्रियाया द्वारदेशं याति तदहं वेद्मि तस्या एव निमन्त्रणाय । अपरं यत् कार्यं वक्ति तत् छौव, यतः स वल्लभवल्लभः । य ईदशो भवति तस्य तद्दर्शनेनैव निर्वृतिः । यतस्तेनोक्तमस्ति "प्रियादर्शनमेवाऽस्तु', किमन्यैर्दर्शनान्तरैः । निर्वृतिः प्राप्यते येन, सरागेणाऽपि चेतसा ॥ अन्योऽपि य ईश्वर:- हरः स वल्लभवल्लभ अत एव योगयुक्- सर्वत्र पार्वतीसहितः ॥१॥ . यत्सेवावशतः सदाऽपि विपुलं राज्यं लभन्ते सुताः, सत्यन्यस्वजनव्रजे बलयुते सिंहाः स्वजातौ तथा । आम्राणीह फलेषु शेषजगतः सङ्ख्याऽत्र नो लभ्यते, सा स्तात् सेवकवत्सला भगवती श्रीअम्बिका सम्पदे ॥२॥ राष्ट्राः सन्ति सहस्रशः क्षितितलेऽपारे सुराष्ट्राभिधा, किन्त्वस्यैव सदैव दैवतयुतस्याऽस्ति प्रसिद्धा द्विधा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy