________________
जून - २०१३
२३७
तपोऽधिकारेदशोपवासा दशभि-रष्टौ षट्दशभिस्तथा । एकेन पञ्चदश च, पञ्च विंशतिभिः कृता ॥२२।। घनैः कृतं तपः षष्टं, शतसङ्ख्याभिरष्टमम् । कर्पूरेण रूप्यमुद्रा, प्रत्ता सर्वतपस्विनाम् ॥२३।। प्रत्तं तेन रूपकैकं, प्रतिवेश्म सधर्मिणाम् । प्रत्ता लभ्यनिकाऽन्यैश्च, पेटक-मोदकादिका ॥२४॥ पारणाधिकारे - आषाढचतुर्मासकपारणा मन्त्रिणा गोडीदासेन, दशकस्य साहि गगलकेन, वृद्धपाक्षिकपारणा अभयचन्दलहुजित्केन, दशकस्य सा. सूरा लालजितकेन, तेलाधरस्य पारणा सा. धर्मचन्द-कुंवरजिद्भयां, दशकस्य बाईकेशरकया, श्रीपर्वपारणा सा. गणेश कपूरकेन, दशकस्य वेणीअद्दासञ्झेन च कारापिता ।
एवं पर्युषणापर्व, सर्वसत्त्वसुखावहम् । सुखमाराधितं श्रीमद्-देव-गुर्वोः प्रसादतः ॥१॥ भवद्भिरपि तत्रत्य-धर्मकृत्यनिवेदकम् ।
पत्रं सम्प्रेष्य सम्मोद्य-मस्माकं मानसं पुनः ।।२।। अत्रत्यानां वा.श्रीदानचन्द्रगणि, पं. श्रीविमलचन्द्रगणि, मुनि जयचन्द्रगणि, मुनि सुमतिचन्द्रगणि, मुनि दीपचन्द्रगणि, मुनि वल्लभसागरगणि, मुनि ज्ञानसागरगणि, मुनि हितसागरगणि, मुनि गुलालचन्द्रगणि, मुनि राजचन्द्रगणि, मुनि धिरंमीठाचंदजी प्रभृतीनां नत्यनुनतिर्छया । सङ्घस्य धर्मलाभो लाभ्यः ।
तथा तुम उत्तम योग्य गरढा पाटभक्त छौ । सदवसरै वीसरता नथी तुमनें श्रीनांदसमा गुढलानौ आदेश छै, ते प्रीछजौ। शिष्य-साधवी सर्वनैं साता पूछवी। वलता पत्र संभारी लिखवा ॥ माह सुदि १३ श्री अचलगच्छे श्रीनान्दसमानगरे-वा.श्रीमेघराजगणिवरेषु श्रीपर्वपत्रम् ।।
-x
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org