________________
जून - २०१३
१७७
(३५) श्रीरत्नविजयमुनिवरं प्रति जयपुरसङ्घस्य पत्रम्
अहँ नमः -
श्रीमत्पार्श्वजिनेन्द्रपादकमलध्यानैकतानाः सदा, श्रेष्ठध्यानयुगेऽतिरक्तहदयाः षटकायिकानां दया । जीवानां च विधायका निखिलसार्वज्ञाऽऽगमाऽभ्यासिनो, व्याख्यानामृतवर्षणेन नितरां धर्माङ्करोत्पादकाः ॥१॥ सत्सिद्धान्तविचारदक्षमतयो दीनोद्दिधीर्षायुताः पाखण्डद्रुमदाहनेऽग्निसदृशाः श्रीसङ्घसम्पूजिताः । अद्य श्रीशुभमूर्तिरत्नविजयाख्याना विराजन्ति ये,
तत्पादाब्जयुगेऽस्तु सङ्घजनतामूर्ती सदा वन्दना ॥२॥ सकलजयपुरस्थश्रीसधैर्विज्ञप्तिर्विधीयते
स्वामिन्! धन्या सा वसुधा यत्रत्यजनाः श्रीमच्चरणारविन्दसेवानुरता अहर्निशमधुना स्वामिमुखनिःसृतधर्मोपदेशवचनामृतलहरिसम्पर्कात् स्वकीयहृद्गताज्ञानताजनितसन्तापं दूरीकुर्वते ।।
स्वामिस्तदेवाऽहर्वयमप्यतिसमीचीनं मनिष्यामहे, यस्मिंश्च श्रीमच्चरणाम्भोजरजोऽस्मदुत्तमाओं पतिष्यति । तदैवास्योत्तमाकं नाम सफलीभविष्यति ।
स्वामिन्नस्मान् जयपुरस्थान् पावयितुकामैः श्रीमद्भिर्यदाऽत्राऽऽगमनं विहितं तदा चाऽस्माभिरेवं विचारितम् 'अहो ! अतिधन्या वयं येषां कालत्रितयस्याऽपि पुण्यवत्तैव सूच्यते मुनिराजागमनेन' । तथा चोक्तम्
हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥१॥
एवं हि पुण्यवत्त्वे सिद्धे तस्य च पापविघटनोत्तरजायमानत्वेन भवच्चरणारविन्ददर्शनप्रतिबन्धकीभूतपापस्येदानीमभावात् प्रतिबन्धकाभावस्य कार्यमात्रजनक
१. पत्रमिदं सचित्रमस्ति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org