________________
जून - २०१३
१४३
(२६) जेसलमेकस्थ-श्रीलक्ष्मीचन्दाचार्य प्रति विक्रमपुरतो मुनिश्रीपरमानन्दस्य लेख: श्रीजिनेश्वराय नमः ॥
स्वस्तिश्रीस्थितिभूतिविच्युतिमयं विश्वं हि विश्वं ध्रुवं, यस्याऽऽदर्शतलेऽमलेव, विमले सत्केवले भासते । दीबंध्यामृतदायकं(?) नरसुरव्यूहैररं सेवितं,
तं वामेयमहं जिनं प्रणिपनीपत्ये परामोदतः ॥१॥ अथ नगरवर्णनम्
भूमीश्वरो यत्र सदैव राजते, नित्यं सदाचारयुतोऽयुतोऽहंसा । दुष्टार्यहङ्कारसमूहशैल-नाशेन्द्रवज्राधिकसत्प्रभावः ॥२॥ यस्मिन् पदं शासति पित्र्यमीतयः, प्रतापसन्त्याजितवासभूमयः । सन्त्रासिता दैववशाद् वने वसद्-दुष्टारिसन्दोहनिवासमादधुः ॥३॥ स्वर्गादौ यस्य सत्कीर्ति-रुज्ज्वला गीयते सुरैः । शास्त्रानुसारव्यापारः, शिल्पज्ञानविशारदः ॥४॥ श्रीमूलराजेश्वरराज्यराजो, न्यायाजितश्रीभृतकोशगेहः । निसर्गधैर्यावलिलङ्घिताब्धि-र्दुष्टारिसिंहो गजसिंहनामा ॥५॥
चतुभिः कलापकम् ॥ विचित्रचित्राः सुतरां पवित्राः, विशालशाला: सुतरां विशालाः । अतीव रम्या नरनाथनम्याः, जिनालया यत्र सतां हितालयाः ॥६॥ लसत्कीर्तियुक्ता धनश्रेणिसक्ताः, जिनाज्ञावहाः बिभ्रतः श्राद्धधर्मम् । जनानां वरा दुष्टमार्गातिरिक्ताः, सदा दाद(न)दा दानिनो यत्र सन्ति ॥७॥ लसति यत्र हि रम्यवधूजनो, निखिलपूरुषचक्रमनोहरः । चकितबालकुरङ्गविलोचनः, शरदुडुव्रजनाथवराननः ॥८॥ बहुविहङ्गमराजिकृतास्पदं, विशदवारिजराजिविराजितम् । अमरसागर इत्यभिधं सरो, लसति यत्र विशालतरं वरम् ॥९॥ सद्राकाहिमरश्मि-कुन्द-हिमवच्छूभैस्तथाऽभ्रल्लिहै:,
प्राज्यापाम्पतिपुत्रिभिर्बहुविधैः सौधैः सदा सुन्दरे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org