________________
अनुसन्धान-५९
श्री करहेडक-पार्श्व-स्तवः आनन्दभ(क)न्द-कुमुदाकरपूर्णचन्द्रं
विश्वत्रयीनयनशीतलभावचन्द्रम् । उद्दण्डचण्डमहिमारमया सनाथं
नित्यं नमामि करहेटक-पार्श्वनाथम् ॥१॥ नाथ ! त्वदीयमुखमण्डलमीक्षमाणो,
__ नायं जनो लवणिमापरपारमेति । पोतः प्रयत्नचलितोऽपि कदापि किं वा,
यं(यद्?) गम्यते चरमसागरपुष्करान्तम् ॥२॥ कान्तं तवेश नयनद्वितयं विलोक्य
कारुण्यपुण्यपयसा भरितं सरोवत् । मल्लोचने हरिणवच्चपले चिराय
सन्तोषपोषमयतां भवदावतप्ते ॥३॥ कल्पद्रुमो मम गृहाङ्गणमागतोऽद्य
चिन्तामणिः करतले चटितोऽद्य सद्यः । अद्याऽऽश्रिता मम पदौ सुरधेनुरेव
___ यद् भेटितोऽसि करहेटक-पार्श्वदेवः ॥४॥ सिद्धानि मेऽद्य सकलानि मनोमतानि,
पापानि पार्श्वजिन ! मे विलयं गतानि । याचे न किञ्चिदपरं भवतो गभीरं
ध्यानं तवाऽस्ति यदि महदि मे स धीरम्(?) ॥५॥ ॥ इति करहेटक-श्रीपार्श्वस्तवनं कृतं श्री मेरुनन्दनोपाध्यायेन ॥
श्रीवीसविहरमाणस्तवनम् भत्ति-सरोवरु ऊलटिउ जागिय हियइ जगीस । साहिब आणंदिहिं संथुणिमो विहरमाण जिण वीस ॥१॥