SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जून - २०१२ ७१ शूद्रोऽपि शीलसम्पन्नो, गुणवान् द्विज उच्यते ।। ब्राह्मणोऽपि क्रियाहीनः, शूद्रापत्यसमो भवेत् ॥३॥ पञ्चेन्द्रियार्णवं घोरं, यदि शूद्रोऽपि तीर्णवान् । तस्मै दानं प्रदातव्य-मप्रमेयं युधिष्ठिर! ॥४॥ न जातिर्दृश्यते राजन्!, गुणाः कल्याणकारकाः । जीवितं यस्य नाऽऽत्मार्थं, धर्मार्थं तस्य जीवितम् । अहोरात्रं चरेत् क्षान्ति, तं देवा ब्राह्मणं विदुः ॥५॥ परित्यज्य गृहावासं, ये स्थिता मोक्षकाक्षिणः । कामेष्वसक्ताः कौन्तेय!, ब्राह्मणास्ते युधिष्ठिर! ॥६॥ अहिंसा निर्ममत्वं च, आत्मकृत्यस्य वर्जनम् । रागद्वेषनिवृत्तिश्च, एतद् ब्राह्मणलक्षणम् ।७।। गायत्रीमात्रसारोऽपि, वरं विप्रः सुयन्त्रितः । नाऽऽधीत्य चतुरो वेदान्, सर्वाशीः सर्वविक्रयी ॥८॥ एकरात्रोषितस्याऽपि, या गतिर्ब्रह्मचारिणः । न सा क्रतुसहस्रेण, प्राप्तुं शक्या युधिष्ठिर! ॥९॥ पारगं सर्ववेदानां, सर्वतीर्थाभिषेचकम् । युक्तश्चरति यो धर्म, तं देव ब्राह्मणं विदुः ॥१०॥ यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । कायेन मनसा वाचा, ब्रह्म संपद्यते तदा ॥११॥" अस्माभिरुक्तं यदिदं द्विजानां, मोहं निहन्तुं हतबुद्धिकानाम् । गृह्णन्तु सन्तो यदियुक्तमेतत्, मुञ्चन्तु वाऽयुक्तमिदं यदि स्यात् ॥ कृतिरियं बौद्धभिक्षुपण्डितश्रीसिद्धाचार्य-अश्वघोषपादानां वज्रशूचीप्रकरणमिति ॥
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy