________________
जून २०१२
५९
रितेऽपि ज्ञानजनकत्वम् । काचकामलादिविप्लवबलाच्च विवक्षितरूपाभावेऽपि इति । ततो यथाऽनेकरूपप्रकाशनयोग्यस्याऽपि चक्षुषो दूरतिमिरादिप्रतिनियतसहकारिवशात् प्रतिनियतसन्निहितरूपादिज्ञानजनकत्वं; तथाऽनेकार्थप्रतिपादनयोग्यस्याऽपि शब्दस्य प्रतिनियतपदार्थप्रतिपादकत्वं यदि स्यात्, तदा का नमक्षिति:(न: क्षति: ? ) । शब्दोऽर्थेन सम्बद्धः, प्रतिनियततत्प्रत्ययनिमित्तत्वात्, लोचनवत् । न च लोचनस्याऽप्यर्थेनाऽसम्बन्ध इत्यभिधेयं, योग्यताख्यसम्बन्धस्य तत्रोभाभ्यां प्रतिपन्नत्वात् । न चैवमप्राप्यकारित्वं विरुध्यते, संयोगादेः सन्निकर्षस्याऽनभ्युपगमात् ।
तथा शाब्दो बोधः सम्बन्धन ( सम्बन्धनियत: ?), प्रतिनियतबोधत्वात्, दण्डीत्यादिबोधवत् । इत्थं सम्बन्धो योग्यतानामधेयः शब्दस्याऽर्थेन प्रोक्तयुक्त्या प्रसिद्धः ।
उपमानविचारस्याऽप्रामाणिकानां क्षुन्न (?) एवेति किं तत्र तन्निराकरण
इति वागर्थसंस्थापन(म्) ॥
अग्निशीतत्वस्थापनावादः
शीतो वह्निर्दाहकत्वात्, यद् दाहकं तत् शीतं, यथा हिमं, तथा दाहकश्च वह्निः, तस्मात् शीतः ।
प्रयासेनेति ॥
अथ सकलप्रज्ञालप्रवालचक्रवालाचतूलैर्वावद्यते वादिशार्दूलैः । यथा प्रत्यक्षविरुद्धाऽसौ प्रतिज्ञा । यतः समस्तैरपि जनैर्वह्नावुष्णत्वमेवोपलभ्यते, न शीतत्वलेशोऽपि । तन्न वाच्यं, यतो हेमन्तसमयवासरमुख्यव्यज्यमानार्द्रीकृततालवृन्तप्रान्तप्रोच्छलितशीतशीकरासारशिशिरवैश्वानर उष्णत्वोपलब्धिर्भ्रान्ता एव । यथा विरहिणां सकलजननेत्रपात्रैकलेह्यमहसि उष्णत्वप्रतीतिः।
अथैवमुद्दण्डपुण्डरीकपाण्डुरनिजयशःप्रसरदुग्धमकराकरान्तरपरिस्फुर
त्पाण्डित्यादिगुणडिण्डीरपिण्डीकृतब्रह्माण्डभाण्डैर्बम्भण्यते विद्वत्प्रकाण्डैः । यथा – शीतद्युतावुष्णत्वप्रतीतेर्भ्रान्तित्वं भवतु, बहुभिः तच्छीतत्वोपलम्भात् । वह्नेस्तूष्णत्वं सर्वैरपि प्रतीयते, न केनाऽपि शीतत्वं, तस्मात् प्रत्यक्षविरुद्धः । इदमपि