SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१२ नामादिनिक्षेपत्रयं द्रव्यार्थिकनये ॥३.३.१२॥ भावनिक्षेपः पर्यवनये ॥३.३.१३।। ऋजुसूत्रे नामभावावेवेत्येके ॥३.३.१४॥ सङ्ग्रह-व्यवहारयोः स्थापनावर्जा इत्यन्ये [इति] ॥३.३.१५॥ ॥ इति तृतीयाध्याये तृतीयः पादः ॥ उक्तानां कथायां परार्थानुमानतयोपयोगः ॥३.४.१॥ कथा वाद एव, न वाद-जल्प-वितण्डाभेदात् त्रिधा ॥३.४.२।। साधनदूषणवचनं वादः ॥३.४.३॥ प्रतिपक्षधर्मव्यवच्छेदेन स्वेष्टधर्मस्थापनमस्य फलम् ॥३.४.४॥ विजिगीषोत्थेऽस्मिन् वादि-प्रतिवादि-सभ्य-सभापतयश्चत्वारोऽङ्गानि, अन्यत्र वादि-प्रतिवादिनौ क्वचित् सभ्योऽपि ॥३.४.५।। वादि-प्रतिवादिनौ प्रारम्भक-प्रत्यारम्भकौ ॥३.४.६।। तौ जिगीषु-तत्त्वनिर्णिनीषुभेदात् प्रत्येकं द्विधा ॥३.४.७।। तत्त्वनिणिनीषुः स्वात्मनि परत्र चेति द्विधा ॥३.४.८।। वादिप्रतिवादिसिद्धान्ताभिज्ञत्व-माध्यस्थ्यादिगुणवानुभयाभिमतः सभ्यः ॥३.४.९।। प्रज्ञाज्ञैश्वर्यादिगुणवान् सभापतिः ॥३.४.१०॥ प्रमाणतः स्वपक्षस्थापन-परपक्षखण्डने वादि-प्रतिवादिनोः, तयोर्वादस्थानक कथाविशेषाङ्गीकारकरणा-ऽग्रवादोत्तरवादनिर्देशादिकं सभ्यस्य, वाद्याद्यभिहितावधार-कलहव्यपोहादिकं सभापतेश्च कर्म ॥३.४.११।। सजिगीषुके वादे यावत्सभ्यापेक्षमन्यत्र च यावत्तत्वनिर्णयं यावत्स्फूत्ति च वक्तव्यमिति ॥३.४.१२॥ ॥ इति तृतीयाध्याये तुर्यः पादः ॥ ॥ इति [नय-निक्षेप-वादनिरूपणाख्यः] तृतीयोऽध्यायः समाप्तः ॥ ॥ अथ चतुर्थोऽध्यायः ॥ अस्तित्वनास्तित्वाद्यनन्तधर्मात्मकं वस्तु तत्त्वम् ॥४.१.१।। तद् द्रव्य-पर्यायाभ्यां द्विधा ॥४.१.२॥ नाऽभावस्तत्त्वान्तरं, प्रागभावादिचतुर्विधस्याऽपि तस्य भाव एवाऽन्तर्भावात् ॥४.१.३॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy