________________
फेब्रुआरी - २०१२
सन्दिग्धाभाववद्वया-ऽव्यतिरेका-ऽप्रदर्शितव्यतिरेक-विपरीतव्यतिरेकै
र्द्वितीयश्च नवधा ॥२.४.२४॥ उक्तविपरीते उपनय-निगमनाभासे ॥२.४.२५।। अनाप्तोक्तजं ज्ञानमागमाभासम् ।।२.४.२६।। विषयाभासादयस्तूक्तविपरीता इति ॥२.४.२७।।
॥ इति द्वितीयाध्याये तुर्यः पादः ॥ ॥ इति [प्रमाणविशेषनिरूपणाख्यो] द्वितीयोऽध्यायः ॥
॥ अथ तृतीयोऽध्यायः ॥ अंशान्तराप्रतिक्षेपी वस्त्वंशमात्रग्राही अभिप्रायविशेषो नयः ॥३.१.१॥ न प्रमाणमेव, स्वरूपादिभेदात् ॥३.१.२।। स नैगम-सङ्ग्रह-व्यवहार-र्जुसूत्र-शब्द-समभिरूढवम्भूतभेदतः सप्तधा ॥३.१.३।। समभिरूढैवम्भूतयोः शब्द एवाऽन्तर्भावात् पञ्च नया इत्येके ॥३.१.४॥ सङ्ग्रहस्याऽपि नैगमेऽनुप्रवेश इति चत्वार इत्यपरे ॥३.१.५।। आद्यास्त्रयो द्रव्याथिकाश्चत्वारोऽन्तिमाः पर्यायाथिकाः ॥३.१.६।। ऋजुसूत्रस्याऽपि द्रव्यार्थिकत्वमित्येके ॥३.१.७।। सामान्यविशेषोभयादिग्राही परामर्शो नैगमः ॥३.१.८।। स प्रधानोपसर्जनभावेन धर्मद्वय-धर्मिद्वय-धर्मधर्म्युभय-गोचरत्वतस्त्रिधा ॥३.१.९॥ सामान्यमात्रगोचरः सङ्ग्रहः ॥३.१.१०।। परापरभेदाद् द्विधा ॥३.१.११।। आद्यः सत्त्वाख्यपरसामान्यग्राही, द्वितीयस्तु द्रव्यत्वाद्यवान्तरसामान्यग्राही ॥३.१.१२॥ विधिपूर्वक-सङ्ग्रहगृहीतार्थविभाजको व्यवहारः ॥३.१.१३।। प्राधान्येन वर्तमानक्षणस्थायि-पर्यायमात्रग्राही ऋजुसूत्रः ॥३.१.१४॥ कालादिभेदाच्छब्दस्याऽर्थभेदाभ्युपगन्ता शब्दः ॥३.१.१५।। व्युत्पत्तिनिमित्तभेदतः पर्यायशब्दार्थभेदाभ्युपगन्ता समभिरूढः ॥३.१.१६।। व्युत्पत्तिनिमित्तक्रियाविष्टा-ऽर्थवाच्यत्वाभ्युपगन्ता एवम्भूतः ॥३.१.१७।। पूर्वपूर्वेषामधिकविषयत्वमुत्तरोत्तरेषां न्यूनविषयत्वं चैषु समानम् ॥३.१.१८॥ पूर्वे चत्वारोऽर्थनयाः शेषाः शब्दनया इति ॥३.१.१९।।
॥ इति तृतीयाध्याये प्रथमः पादः ॥