________________
७४
अनुसन्धान-५८
तस्मिन् ॥१४१॥
१ध्वान्तं ब्रूतेऽर्हतां का तृणमणिषु? २खगः कश्चिदाख्याति केन, प्रीतिर्मेऽथाऽऽह कर्म प्रसभकृतमहो दुर्बलः केन पुष्येत्? । *कामध्रुग् वक्ति काऽत्र प्रजनयति शुनो? ५[युद्धह]त् पूर्वलक्ष्मी
सत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः? ॥१४२॥ तामस । [समता । सारस । सरसा । स] हसा । साहस । मारस । सरमा । समरहर! तासासा मास । पद्मजातिः ।
१. तामस!, समता । २. हे सारस!, सरसासरोवरेण । ३. हे साहस!- अपर्यालोचितकर्म!, सहसा
| ता म स ह सा बलेन । ४. मारं स्यति- तनूकरोतीति मारसस्तत्सम्बोधनंहे मारस!, सरमा- शुनी । ५. समरे- सङ्ग्रामे हरतीति समरहरस्तत्सम्बोधनं - समरहर!, ता- लक्ष्मीः , सा सासैव, मा आस- चिक्षेप ॥१४२॥
'किमभिदधौ करभोरं सततगतिं किल पतिः स्थिरीकर्तुम्? ।
जननी पृच्छति विकचे कस्मिन् सन्तुष्यति भ्रमरः? ॥१४३।। मातरम्भोरुहे।
१. माऽत- मा गच्छ, रम्भावदूरू यस्याः सा तथा, तस्याः सम्बोधनंहे रम्भोरु! । २. हे मातः!- जननि!, अम्भोरुहे- पद्मे ॥१४३।।
‘प्राधान्यं धान्यभेदे क्व कथय[ति] चयं(यः)? २कीदृशी वायुपत्नी, नक्षत्रं वक्ति कुर्वे किमहमिनमिति प्राह तत्स्तोत्रजीवी । "ब्रूहि ब्रह्मस्वरं च पक्षितिकमभिगदाऽथोल्लसल्लीलमञ्जू
ल्लापामामन्त्रय स्त्रीं क्व सजति न जनः प्राह कोऽप्यम्बुपक्षीः ॥१४४।। कलमे । मेलक । करता । तारक । सेवक । कवसे । कराव । वराक। कलरवरामे । तासे बक । पद्मजातिः ।।
१. कलमे- शालौ, हे मेलक!- चय! । २. के- वायौ रता करता, हे तारक!- नक्षत्र! । ३. हे सेवक!, कवसे- स्तौषि । ४. कस्य- ब्रह्मणो रावःशब्दः करावस्तत्सम्बोधनं - हे कराव! । ५. हे वराक!- क्षितक! । ६. कलो