SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०१२ 'राजन्! कः समरभरे किमकारयदाशु किं रिपुभटानाम्? । `कुच्छियविलास पभणइ केरिसं पिसुणहिययं? ॥७७॥ अहमलीलवंकं । १. अहं कर्त्ता अलीलवम् - लूनवान् कं- मस्तकम् । २. अधमा लीला यस्य स तथा हे अधमलील!, व ं- कुटिलम् ॥७७॥ 'अयि सुमुखि ! सुनेत्रे! सुभ्रु ! सुश्रोणि! मुग्धे!, वरतनु! कलकण्ठि! स्वोष्ठ! पीनस्तनि! त्वम् । वद निजगुणपाशैः कं करोषीह केषां ?, २ सुगुरुरपि च दद्यात् कीदृशां मन्त्रविद्या: ? ॥७८॥ ५५ नाहंयूनाम् । १. नह बन्धने, नहनं नाहस्तं बन्धनम्, यूनाम्— तरुणानाम् । २. नाहंयूनाम्- अ[न]हङ्कारिणामित्यर्थः ॥७८॥ 'पृच्छामि जलनिधिरहं किमकरवं सपदि शशधराभ्युदये ? । अलमुद्यमैः सुकृतिनामित्युक्ते कीदृशः कः स्यात् ? ॥७९॥ समुदलसः । १. सम् उद् अलसः शब्दितवान् । तुस हुस हुस शब्दे, ह्यस्तनी सि रूपम् । २. समुद्– सहर्षो अलस- आलस्योपहतः ॥७९॥ 'वदति हरिरम्भोधे! पाणि श्रियः करवाणि किं ?, किमु कुरुत भो ! यूयं लोकाः ! सदा निशि निद्रया ? | मुनिरिह सतां वन्द्यः कीदृक् ? ' तथा च गुरुर्बुवे, तव जडमते! तत्त्वं भूयोऽप्यहं किमचीकरम् ? ॥८०॥ असस्मरः । वर्द्धमानाक्षरजातिः । १. हे अ! - हरे!, अस- आप्नुहि, अस् दीप्त्यादानयोश्चेति रूपम्। २. असस्म- सुप्तवन्तः, षस स्वप्ने, ह्यस्तनी म । ३. सह स्मरेणेति सस्मरो, न सस्मरोऽसस्मरः, कामरहित इत्यर्थः । ४. असस्मरः - स्मारितवान्, स्मृ ध्यै चिन्तायाम्, अद्यतनी सि, अत्वरादित्वादतअभ्यासश्च ॥८०॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy