________________
४४
अनुसन्धान- ५८
१. हे मस्!– चन्द्र! ऐस्त्वम् । इण् गतौ, ह्यस्तनी सि, विकरणलोपे अवर्णस्याऽऽकार इति वृद्धौ रूपम् । २. मया एः- कामस्य । ३. मयैःउष्ट्रैः। ४. हे मे!- लक्ष्मि !, एैर्विष्णुभिः ॥३७॥
गुरुरहमिह सर्वस्याऽग्रजन्मेति भट्ट,
समदमैमदयिष्यन् कोपि कुप्यन् किमाह? ।
`त्वमलदयपदं वा आश्रया -ऽभाव - मूर्च्छाकटक-नगविशेषान् कीदृगामन्त्रयेत? ॥३८॥
आविप्रवमाद्यत्वमदम् ।
१. आः खेदे, हे विप्र ! - द्विज!, वम- मुञ्च आद्यत्वमदं- प्रथमत्वाऽहङ्कारम् । २. आश्च विश्च प्रश्च वश्च मश्च आदौ यस्य स चाऽसौ ( तच्च तत्), न विद्यन्ते त्वश्च मश्च दश्च यत्र स च तम् ( तच्च तद् ) ॥३८॥
'कीदृग् मया सह रणे दैत्यचमूरभवदिति हरिः प्राह ? | लोको वदति किमर्थं का विदिता दशमुखादीनाम् ? ॥३९॥ क्षीणारिहयवाहनाज । गतागतः ।
१. क्षीणानि अरीणां हयवाहनानि यस्यां सा तथा, हे अज! - हरे ! । २. हे जन!- लोक!, आहवाय - सङ्ग्रामाय हरिणाक्षी - सीता ॥३९॥
'दृष्ट्वाऽग्रतः किमप्यवसादवन्तं,
स्वामी पुर:स्थितनरं किमभाषतैकम्? । २कश्चिद् ब्रवीत्यधिजिगीषुनृपा अकार्षीत्,
किं कीदृशो वदत राजगणोऽत्र केषाम् ? ॥४०॥
अयंसीदतिरेकोनः ।
१. रे नः ! - पुरुष ! अयं सीदति क: ? । २. अयंसीत्- उपरमितः, अतिरेकोऽधिको नोऽस्माकम् ॥४०॥
1. अगच्छः इति टि० । 2. अ: विष्णुः, तद्भक्तैः ऐ: वैष्णवैः 3. मदं निवारयन् इति टि० ।
-
इति स्यात् सं. ।