SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३२ अनुसन्धान-५८ न प्रार्थयामि । तु पुनः किमिति विशेषार्थे । 'हे अर्हन् !' हे भगवन् ! 'हे शिवश्रीरत्नाकर !' हे मोक्षलक्ष्मीसमुद्रा (द्र!) शिवस्य श्रीः शिवश्रीस्तत्पुरुषः, रत्नानामाकरो रत्नाकरस्तत्पुरुषः । शिवश्रियो रत्नाकरः शिवश्रीरत्नाकरस्तत्पुरुषस्तस्य सम्बोधनम् । 'हे मङ्गलैकनिलय !' हे भद्रैक मन्दिर ! एक्श्चासौनिलय:(च) कर्मधारयः, मङ्गलानामेकनिलयो मङ्गलैकनिलयस्तत्पुरुषस्तस्य सम्बोधनम् । इदं ‘सद्बोधिरत्नं' प्रधानजिनधर्मप्राप्तिचिन्तामणिः, बोधिरेव रत्नं बोधिरत्नं कर्मधारयः; सच्च तद्बोधिरत्नं च सद्बोधिरत्नं कर्मधारयः । पुनद्वि(र्द्वि)तीयाज्ञापनाय तदिति । सदिति पृथक् पदं वा बोधिरत्नस्य विशेषणीभूतम् । सद्बोधिरत्नं किंविशिष्टम् ? ' श्रेयस्करं' मोक्षकारकम् । श्रेयः करोतीति श्रेयस्करं तत्पुरुषः । पुनर्द्वितीयाज्ञापनाय तदिति । ‘अहो' इति सम्बोधने, 'एवेति निश्चये । 'प्रार्थये' याचे । कथम् ? केवलमद्वितीयं, 'शिवश्री रत्नाकरे'ति सम्बोधनं कथयता स्तोत्रकर्ता स्वनामाऽसूचि श्रीरत्नाकरसूरिरिति पञ्चविंशतितमवृत्तार्थः ॥२५॥ श्रीमत्तपागणगणना-ङ्गणदिनमणिविजयसेनसूरीणां । शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन ॥१॥ ससूत्रवृत्तेर्ग्रन्थाग्रं, श्लोकसङ्ख्या शतत्रयी । प्रत्यऽक्षरं गणनया, सञ्जाताऽस्मिन् स्तवोत्तमे ॥२॥ अङ्कतोपि ३०० इतिश्री साधारणजिनवरस्तवनम् ॥ स्त्वदपरो- तुं थकी अनेरुं कृपानुं पात्र हे टबार्थ : दीनोद्धारधुरन्धर - दीनभव उधरवा धोरी; अनेरो; नास्ते मदन्य कोई नथी परोपकारी; कृपापात्रं नात्र नथी; जने जिनेश्वर तथाप्येतां न याचे श्रियं हे जिनेश्वर ! तो पिण एतुं न वाघुं लक्ष्मी; किन्त्वर्हन्निदमेव केवलं किसुं तु पुन एह जिने केवल; महो ! सद्बोधिरत्नं शिव रूडूं बोधबीज मोक्षश्री; श्रीरत्नाकरमङ्गलैकनिलयः रत्नाकर ! हे मङ्गलीक निलय; श्रेयस्करं प्रार्थये कल्याण करो वांछऊ ॥२५॥ इतिश्री साधारणजिनस्तोत्रसम्पूर्णः - इति श्री सर्वजिनेश्वरस्तुतिरूप स्तोत्र सम्पूर्णः । संवत् १८१० ना वर्षे कार्त्तिकशुदि ५ दिन बूधवारई - ग्रन्थाग्रंथ १०१, संवत १८१० वर्षे कालि शूद ५ बूधवारई, लिखितं संघवी फतेचंद सूरसंघ श्री पालणपुरमधई शुभं भवतु । श्रीरस्तुः ॥ - -
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy