SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१२ १९ टबार्थ : दग्धोग्निना क्रोधमयेन दष्टो - दग्ध अग्नि क्रोधे डस्यो पीडो, दुष्टेन लोभाख्यमहोरगेन(ण) - दुष्टै लोभई रुपीयै मोटे सर्प डसो, ग्रस्तोभिमानाजगरेण - ग्रस्यो अहंकाररूपीइं अजगरि, मायाजालेन - माया जालें, बद्धोऽस्मि - बांधो हुँ, कथं भजे त्वाम् - किम सेवू ? । कृतं मयाऽमुत्र हितं न चेह - लोकेऽपि लोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञे भवपूरणाय ॥६॥ ॥ कृतं० ॥ व्याख्या । 'मयाऽमुत्र' परलोके 'हितं' सुकृतं 'न कृतं' न विहितम् । 'हे लोकेश !' लोकानां षट्कायानामीशः स्वामी तत्पालकत्वात् । लोकानामीशो लोकेशस्तत्पुरुषस्तस्य सम्बोधनम् । 'च' पुनरिह 'लोकेऽपि' वर्तमानजन्मन्यपि मम 'सुखं' शर्म नाभून्न 'जज्ञे' । अतो 'हे जिनेश !' हे केवलिपते ! जिनानामीशो जिनेशस्तत्पुरुषस्तस्य सम्बोधनम् । 'अस्मादृशां' वयमिव दृश्यन्ते इत्यस्मादृशस्तेषामस्मत्तुल्यानामित्यर्थः । 'जन्मा'ऽवतारः, 'केवलंभवपूरणाय' ऽवतारगणनाय । यथा पूर्वजन्मस्ववतारा अभूवन्, तथा अयमप्येकोऽवतारगणना। भवस्य पूरणं भवपूरणं तत्पुरुषः, तस्मै । 'जज्ञे' जातं, जनि प्रादुर्भावे इति धातुरेवेति निश्चये। ॥ इति षष्टवृत्तार्थः ॥६॥ टबार्थ : कृतं मयामुत्र हितं न चेह - न की— मायाइं में परलोकेइहलोकइ हित, लोकेपि लोकेश सुखं न मेऽभूत् - लोकनें विर्षे लोकना ठाकुर सुख न हुई मुझ, अस्मादृशां - अम्ह सरीखानें, केवलमेव जन्म - केवल जनम हूओ, जिनेश - वीतराग, जज्ञे - हूओ, भवपूरणाय - भव पूरवाने काजइं । मन्ये मनो यन्न मनोज्ञवृत्तं, त्वदास्यपीयूषमयूखलाभात् । द्रुतं महानन्दरसं कठोर-मस्मादृशां देव ! तदश्मतोऽपि ॥७॥ ॥ मन्ये० ॥ व्याख्या ॥ हे नाथाऽहमेवं 'मन्ये' जानामि 'यदि ति यस्मात् 'अस्मादृशां मन'श्चित्तं कर्तृपदं 'महानन्दरसं' महानन्दलक्षणमाह, सद्यो रसास्वादजन्माविगलितवेद्यान्तरा परमप्रीतिर्महानन्दरस एव परसं पानीयं कर्मपदं 'न द्रुतं' न श्रविउं इति लोकोक्तिः । कस्मात् ? 'मनोज्ञवृत्तत्वदास्यपीयूषमयूखलाभात्'; मनोज्ञं सुन्दरम् । पुनर्वृत्तं वर्तुलमेवंविधं यत्त्वदास्यं भवद्वदनं, तदेव पीयूषमयूखोऽमृतकिरणश्चन्द्र इत्यर्थस्तस्य लाभः प्राप्तिः ततः, तवास्यं 'त्वदास्यं' तत्पुरुषः । वृत्तं तद् वृत्त त्वदास्यं च मनोज्ञत्वदास्यं कर्मधारयः ।
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy